🪷 Atharvaveda 3.25

Tṛtīya-Kāṇḍa · Sūkta 25

कामस्य इषुः। १-६ भृगुः। मित्रावरुणौ, कामेषुः। अनुष्टुप्। उ॒त्तु॒दस्त्वोत् तु॑दतु॒ मा धृ॑थाः॒ शय॑ने॒ स्वे। इषुः॒ काम॑स्य॒ या भी॒मा तया॑ विध्यामि त्वा हृ॒दि॥१॥ आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि॥२॥ या प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता । प्रा॒चीन॑पक्षा॒ व्योऽषा॒ तया॑ विध्यामि त्वा हृ॒दि॥३॥ शु॒चा वि॒द्धा व्योऽषया॒ शुष्का॑स्या॒भि स॑र्प मा । मृ॒दुर्निम॑न्युः॒ केव॑ली प्रियवा॒दिन्यनु॑व्रता ॥४॥ आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः । यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥५॥ व्यऽस्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥६॥
— Atharvaveda Kāṇḍa 3 · Sūkta 25 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷