🪷 Atharvaveda 3.23

Tṛtīya-Kāṇḍa · Sūkta 23

वीर-प्रसूतिः। १-६ ब्रह्मा। चन्द्रमा, योनिः, द्यावापृथिवी। अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती। येन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत्। इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ॥१॥ आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न् बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥२॥ पुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम्। भवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान्॥३॥ यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च । तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥४॥ कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते । वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥५॥ यासां॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ । तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ॥६॥
— Atharvaveda Kāṇḍa 3 · Sūkta 23 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷