🪷 युद्धकाण्ड · Sarga 88

Yuddha-Kāṇḍa · The Book of War · Sarga 88 · 41 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.88.1
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥६-८८-१॥
Vālmīki 6.88.2
उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते।कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥६-८८-२॥
Vālmīki 6.88.3
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्।धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥६-८८-३॥
Vālmīki 6.88.4
तं ददर्श महेष्वासो रथे सुसमलङ्कृतः।अलङ्कृतममित्रघ्नं राघवस्यानुजं बली।हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥६-८८-४॥
Vālmīki 6.88.5
उवाचैनं समारब्धः सौमित्रिं सविभीषणम्।तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् ॥६-८८-५॥
Vālmīki 6.88.6
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्।मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥६-८८-६॥
Vālmīki 6.88.7
अद्य वो मामका बाणा महाकार्मुकनिस्सृताः।विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥६-८८-७॥
Vālmīki 6.88.8
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः।अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥६-८८-८॥
Vālmīki 6.88.9
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि।जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥६-८८-९॥
Vālmīki 6.88.10
रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः।शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरस्सरौ ॥६-८८-१०॥
Vālmīki 6.88.11
स्मृतिर्न ते ऽस्ति वा मन्ये व्यक्तं वा यमसादनम्।आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ॥६-८८-११॥
Vālmīki 6.88.12
तच्छुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्णस्तदा।अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥६-८८-१२॥
Vālmīki 6.88.13
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥६-८८-१३॥
Vālmīki 6.88.14
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते ॥६-८८-१४॥
Vālmīki 6.88.15
अन्तर्धानगतेनाजौ यस्त्वया ऽ ऽचरितस्तदा।तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥६-८८-१५॥
Vālmīki 6.88.16
यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस।दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥६-८८-१६॥
Vālmīki 6.88.17
एवमुक्तो धनुर्भीमं परामृश्य महाबलः।ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः ॥६-८८-१७॥
Vālmīki 6.88.18
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः।सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥६-८८-१८॥
Vālmīki 6.88.19
शरैरतिमहावेगैर्वेगवान् रावणात्मजः।सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥६-८८-१९॥
Vālmīki 6.88.20
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ॥६-८८-२०॥
Vālmīki 6.88.21
इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च।विनद्य सुमहानादमिदं वचनमब्रवीत् ॥६-८८-२१॥
Vālmīki 6.88.22
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।आदास्यन्ते ऽद्य सौमित्रे जिवितं जिवितान्तगाः ॥६-८८-२२॥
Vālmīki 6.88.23
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥६-८८-२३॥
Vālmīki 6.88.24
क्षत्रबन्धुं सदानार्यं रामः परमादुर्मतिः।भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ॥६-८८-२४॥
Vālmīki 6.88.25
विशस्तकवचं भूमौ व्यपविद्धशरासनम्।हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥६-८८-२५॥
Vālmīki 6.88.26
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्।हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥६-८८-२६॥
Vālmīki 6.88.27
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मा ऽसि राक्षस।अथ कस्माद्वदस्येतत् सम्पादय सुकर्मणा ॥६-८८-२७॥
Vālmīki 6.88.28
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ॥६-८८-२८॥
Vālmīki 6.88.29
अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवाक्षिपन्।अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम ॥६-८८-२९॥
Vālmīki 6.88.30
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान्।निजघान महावेगान् लक्ष्मणो राक्षसोरसि ॥६-८८-३०॥
Vālmīki 6.88.31
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ॥६-८८-३१॥
Vālmīki 6.88.32
स शरैराहतस्तेन सरोषो रावणात्मजः।सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥६-८८-३२॥
Vālmīki 6.88.33
स बभूव तदा भीमो नरराक्षससिंहयोः।विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥६-८८-३३॥
Vālmīki 6.88.34
उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ॥६-८८-३४॥
Vālmīki 6.88.35
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ।उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥६-८८-३५॥
Vālmīki 6.88.36
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥६-८८-३६॥
Vālmīki 6.88.37
बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ।युयुधाते महात्मानौ तदा केसरिणाविव ॥६-८८-३७॥
Vālmīki 6.88.38
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥६-८८-३८॥
Vālmīki 6.88.39
सुसम्प्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ।परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ॥६-८८-३९॥
Vālmīki 6.88.40
अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ।अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ॥६-८८-४०॥
Vālmīki 6.88.41
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाशीतितमः सर्गः ।। ८८ ।। ॥६-८८-४१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷