🪷 युद्धकाण्ड · Sarga 89
Yuddha-Kāṇḍa · The Book of War · Sarga 89 · 42 ślokas
🪷 Devanāgarī Ślokas
ततः शरं दाशरथिः सन्धायामित्रकर्शनः।ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥६-८९-१॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः।विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥६-८९-२॥
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्।सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥६-८९-३॥
निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे।त्वर तेन महाबोहो भग्न एष न संशयः ॥६-८९-४॥
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान्।मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ॥६-८९-५॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ॥६-८९-६॥
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः।ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥६-८९-७॥
सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः।अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥६-८९-८॥
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥६-८९-९॥
युवां खलु महायुद्धे शक्राशनिसमैः शरैः।शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ ॥६-८९-१०॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥६-८९-११॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥६-८९-१२॥
इत्युक्त्वा सप्तभिबाणैरभिविव्याध लक्ष्मणम्।दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥६-८९-१३॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥६-८९-१४॥
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा।अचिन्तयित्वा प्रहसन् नैतत् किञ्चिदिति ब्रुवन्।मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः ॥६-८९-१५॥
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणौ युधि।नैवं रणगताः शूराः प्रहरन्ते निशाचर ।। ६.८९.१६ ।।न्।लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव।नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ॥६-८९-१६॥
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥६-८९-१७॥
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम्।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥६-८९-१८॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ॥६-८९-१९॥
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः।बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥६-८९-२०॥
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च।कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥६-८९-२१॥
अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि।शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥६-८९-२२॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥६-८९-२३॥
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ।तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ।स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥६-८९-२४॥
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम्।सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥६-८९-२५॥
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥६-८९-२६॥
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः।शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥६-८९-२७॥
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥६-८९-२८॥
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः।प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ॥६-८९-२९॥
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः।सुघोरयोर्निष्टनतोर्गगने मेगयोर्यथा ॥६-८९-३०॥
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ।प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥६-८९-३१॥
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि।असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥६-८९-३२॥
अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे।बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ॥६-८९-३३॥
स बभूव रणो घोरस्तयोर्बाणमयश्चयः।अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥६-८९-३४॥
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥६-८९-३५॥
चक्रुतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः।इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ॥६-८९-३६॥
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥६-८९-३७॥
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ॥६-८९-३८॥
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥६-८९-३९॥
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥६-८९-४०॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य।प्रियहितमुपपादयन् महौजाः समरमुपेत्य विभीषणो ऽवतस्थे ॥६-८९-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोननवतितमः सर्गः ।। ८९ ।। ॥६-८९-४२॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 88
- Next: Yuddha-Kāṇḍa Sarga 90 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷