🪷 युद्धकाण्ड · Sarga 90
Yuddha-Kāṇḍa · The Book of War · Sarga 90 · 55 ślokas
🪷 Devanāgarī Ślokas
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ।प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ॥६-९०-१॥
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली।शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ॥६-९०-२॥
ततो विस्फारयामास महद्धनुरवस्थितः।उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥६-९०-३॥
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः।राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ॥६-९०-४॥
विभीषणस्यानुचरास्ते ऽपि शूलासिपट्टिशैः।चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ॥६-९०-५॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥६-९०-६॥
ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान्।उवाच वचनं काले कालज्ञो रक्षसां वरः ॥६-९०-७॥
एको ऽयं राक्षसेन्द्रस्य परायणमिव स्थितः।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥६-९०-८॥
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि।रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥६-९०-९॥
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥६-९०-१०॥
जम्बुमाली महामाली तीक्ष्णवेगो ऽशनिप्रभः।सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥६-९०-११॥
संह्रादी विकटो निघ्नस्तपनो दम एव च।प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥६-९०-१२॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्।विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥६-९०-१३॥
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥६-९०-१४॥
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान्।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥६-९०-१५॥
एतावदेव शेषं वो जेतव्यमिह वानराः।हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥६-९०-१६॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥६-९०-१७॥
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति।तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति।वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ॥६-९०-१८॥
इति तेनातियशसा राक्षसेनाभिचोदिताः।वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ॥६-९०-१९॥
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः।मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः ॥६-९०-२०॥
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥६-९०-२१॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ॥६-९०-२२॥
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥६-९०-२३॥
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम्।देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥६-९०-२४॥
हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान्।रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥६-९०-२५॥
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥६-९०-२६॥
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥६-९०-२७॥
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥६-९०-२८॥
न ह्यादानं न सन्धानं धनुषो वा परिग्रहः।न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥६-९०-२९॥
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥६-९०-३०॥
चापवेगविनिर्मुक्तबाणजालैः समन्ततः।अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ॥६-९०-३१॥
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्।अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥६-९०-३२॥
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः।निरन्तरमिवाकाशं बभूव तमसावृतम् ॥६-९०-३३॥
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः।दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ॥६-९०-३४॥
तमसा संवृतं सर्वमासीद्भीमतरं महत्।अस्तं गते सहस्रांशौ संवृतं तमसेव हि ॥६-९०-३५॥
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः।क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ॥६-९०-३६॥
न तदानीं ववौ वायुर्न च जज्वाल पावकः।स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ॥६-९०-३७॥
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ॥६-९०-३८॥
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥६-९०-३९॥
ततो ऽपरेण भल्लेन शितेन निशितेन च।सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥६-९०-४०॥
महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः।स तेन बाणाशनिना तलशब्दानुनादिना ॥६-९०-४१॥
लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ॥६-९०-४२॥
स यन्तरि महातेजा हते मन्दोदरीसुतः ॥६-९०-४३॥
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्।तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ॥६-९०-४४॥
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः।धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ॥६-९०-४५॥
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः।अर्दयामास बाणौघैर्विचरन्तमभीतवत् ॥६-९०-४६॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥६-९०-४७॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥६-९०-४८॥
ततः प्रमाथी शरभो रभसो गन्धमादनः।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥६-९०-४९॥
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः।चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ॥६-९०-५०॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ॥६-९०-५१॥
ते हया मथिता भग्ना व्यसवो धरणीं गताः।ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ॥६-९०-५२॥
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः।स हताश्वादवप्लुत्य रथान्मथितसारथेः।शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥६-९०-५३॥
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः।सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ॥६-९०-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः ।। ९० ।। ॥६-९०-५५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 89
- Next: Yuddha-Kāṇḍa Sarga 91 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷