🪷 युद्धकाण्ड · Sarga 91

Yuddha-Kāṇḍa · The Book of War · Sarga 91 · 99 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.91.1
स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः।इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥६-९१-१॥
Vālmīki 6.91.2
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥६-९१-२॥
Vālmīki 6.91.3
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥६-९१-३॥
Vālmīki 6.91.4
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः।स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥६-९१-४॥
Vālmīki 6.91.5
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः।नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥६-९१-५॥
Vālmīki 6.91.6
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै।अहं तु रथमास्थाय आगमिष्यामि संयुगम् ॥६-९१-६॥
Vālmīki 6.91.7
तथा भवन्तः कुर्वन्तु यथेमे काननौकसः।न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥६-९१-७॥
Vālmīki 6.91.8
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः।प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥६-९१-८॥
Vālmīki 6.91.9
स रथं भूषयित्वा तु रुचिरं हेमभूषितम्।प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ॥६-९१-९॥
Vālmīki 6.91.10
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना।आरुरोह महातेजा रावणिः समितिञ्जयः ॥६-९१-१०॥
Vālmīki 6.91.11
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः।निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ॥६-९१-११॥
Vālmīki 6.91.12
सो ऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा।आभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥६-९१-१२॥
Vālmīki 6.91.13
ततो रथस्तमालोक्य सौमित्री रावणात्मजम्।वानराश्च महावीर्या राक्षसश्च विभीषणः।विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ॥६-९१-१३॥
Vālmīki 6.91.14
रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान्।पातयामास बाणौघैः शतशो ऽथ सहस्रशः ॥६-९१-१४॥
Vālmīki 6.91.15
स मण्डलीकृतधनू रावणिः समितिञ्जयः।हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः ॥६-९१-१५॥
Vālmīki 6.91.16
ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः।सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ॥६-९१-१६॥
Vālmīki 6.91.17
ततः समरकोपेन ज्वलितो रघुनन्दनः।चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ॥६-९१-१७॥
Vālmīki 6.91.18
सो ऽन्यत् कार्मुकमादय सज्यं चक्रे त्वरन्निव।तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥६-९१-१८॥
Vālmīki 6.91.19
अथैनं छिन्नधन्वानमाशीविषविषोपमैः।विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥६-९१-१९॥
Vālmīki 6.91.20
ते तस्य कायं निर्भिद्य महाकार्मुकनिस्सृताः।निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ॥६-९१-२०॥
Vālmīki 6.91.21
स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः।जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ॥६-९१-२१॥
Vālmīki 6.91.22
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ॥६-९१-२२॥
Vālmīki 6.91.23
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः।अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥६-९१-२३॥
Vālmīki 6.91.24
दर्शयामास च तदा रावणिं रघुनन्दनः।असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥६-९१-२४॥
Vālmīki 6.91.25
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ॥६-९१-२५॥
Vālmīki 6.91.26
अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्।राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥६-९१-२६॥
Vālmīki 6.91.27
सो ऽतिविद्धो बलवता शत्रुणा शत्रुघातिना।असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥६-९१-२७॥
Vālmīki 6.91.28
तानप्राप्तान् शितैर्बाणैश्चिच्छेद रघुनन्दनः।सारथेरस्य च रणे रथिनो रथसत्तमः।शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ॥६-९१-२८॥
Vālmīki 6.91.29
असूतास्ते हयास्तत्र रथमूहुरविक्लवाः।मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ॥६-९१-२९॥
Vālmīki 6.91.30
अमर्षवशमापन्नः सौमित्रिर्द्दढविक्रमः।प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे ॥६-९१-३०॥
Vālmīki 6.91.31
अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली।विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ॥६-९१-३१॥
Vālmīki 6.91.32
ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ॥६-९१-३२॥
Vālmīki 6.91.33
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्।अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥६-९१-३३॥
Vālmīki 6.91.34
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥६-९१-३४॥
Vālmīki 6.91.35
स तथा ह्यर्दितो बाणै राक्षसेन महामृधे।तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः।विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥६-९१-३५॥
Vālmīki 6.91.36
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ॥६-९१-३६॥
Vālmīki 6.91.37
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ।रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥६-९१-३७॥
Vālmīki 6.91.38
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥६-९१-३८॥
Vālmīki 6.91.39
ततः समरकोपेन संयुक्तो रावणात्मजः।विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥६-९१-३९॥
Vālmīki 6.91.40
अयोमुखैस्त्रिर्भिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्।एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ॥६-९१-४०॥
Vālmīki 6.91.41
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।विभीषणो महातेजा रावणेः स दुरात्मनः ॥६-९१-४१॥
Vālmīki 6.91.42
स हताश्वादवप्लुत्य रथान्निहतसारथेः।रथशक्तिं महातेजाः पितृव्याय मुमोच ह ॥६-९१-४२॥
Vālmīki 6.91.43
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः।चिच्छेद निशितैर्बाणैर्दशधा सा ऽपतद्भुवि ॥६-९१-४३॥
Vālmīki 6.91.44
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः।वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ॥६-९१-४४॥
Vālmīki 6.91.45
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥६-९१-४५॥
Vālmīki 6.91.46
स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥६-९१-४६॥
Vālmīki 6.91.47
तं समीक्ष्य महातेजा महेषुं तेन संहितम्।लक्ष्मणो ऽप्याददे बाणमन्यं भीमपराक्रमः ॥६-९१-४७॥
Vālmīki 6.91.48
कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना।दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥६-९१-४८॥
Vālmīki 6.91.49
तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः।विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ॥६-९१-४९॥
Vālmīki 6.91.50
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥६-९१-५०॥
Vālmīki 6.91.51
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।मुखेन मुखमाहत्य सन्निपेततुरोजसा ॥६-९१-५१॥
Vālmīki 6.91.52
सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः।सधूमविस्फुलिङ्गश्च तज्जो ऽग्निर्दारुणो ऽभवत् ॥६-९१-५२॥
Vālmīki 6.91.53
तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च।सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ॥६-९१-५३॥
Vālmīki 6.91.54
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥६-९१-५४॥
Vālmīki 6.91.55
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥६-९१-५५॥
Vālmīki 6.91.56
रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः।तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ॥६-९१-५६॥
Vālmīki 6.91.57
ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः।आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव ॥६-९१-५७॥
Vālmīki 6.91.58
सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ॥६-९१-५८॥
Vālmīki 6.91.59
अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ॥६-९१-५९॥
Vālmīki 6.91.60
तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः।शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः ॥६-९१-६०॥
Vālmīki 6.91.61
तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम्।अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम्।माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥६-९१-६१॥
Vālmīki 6.91.62
तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम्।गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥६-९१-६२॥
Vālmīki 6.91.63
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्।भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥६-९१-६३॥
Vālmīki 6.91.64
ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः।शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥६-९१-६४॥
Vālmīki 6.91.65
अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः।हुताशनसमस्पर्शं रावणात्मजदारणम् ॥६-९१-६५॥
Vālmīki 6.91.66
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥६-९१-६६॥
Vālmīki 6.91.67
दुरावारं दुर्विषह्यं राक्षसानां भयावहम्।आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ॥६-९१-६७॥
Vālmīki 6.91.68
येन शक्रो महातेजा दानवानजयत् प्रभुः।पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः ॥६-९१-६८॥
Vālmīki 6.91.69
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसन्दधे ॥६-९१-६९॥
Vālmīki 6.91.70
सन्धायामित्रदलनं विचकर्ष शरासनम्।सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ॥६-९१-७०॥
Vālmīki 6.91.71
सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्।लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥६-९१-७१॥
Vālmīki 6.91.72
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि।पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥६-९१-७२॥
Vālmīki 6.91.73
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ॥६-९१-७३॥
Vālmīki 6.91.74
स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥६-९१-७४॥
Vālmīki 6.91.75
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥६-९१-७५॥
Vālmīki 6.91.76
हतस्तु निपपाताशु धरण्यां रावणात्मजः।कवची सशिरस्त्राणो विध्वस्तः सशरासनः ॥६-९१-७६॥
Vālmīki 6.91.77
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः।हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ॥६-९१-७७॥
Vālmīki 6.91.78
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्।अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ॥६-९१-७८॥
Vālmīki 6.91.79
पतितं तमभिज्ञाय राक्षसी सा महाचमूः।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥६-९१-७९॥
Vālmīki 6.91.80
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।लङ्कामभिमुखाः सस्त्रुर्नष्टसञ्ज्ञाः प्रधाविताः ॥६-९१-८०॥
Vālmīki 6.91.81
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ॥६-९१-८१॥
Vālmīki 6.91.82
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥६-९१-८२॥
Vālmīki 6.91.83
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ।राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥६-९१-८३॥
Vālmīki 6.91.84
यथा ऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥६-९१-८४॥
Vālmīki 6.91.85
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः।स बभूव महातेजा व्यपास्तगतजीवितः ॥६-९१-८५॥
Vālmīki 6.91.86
प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान्।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥६-९१-८६॥
Vālmīki 6.91.87
हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः।जगाम निहते तस्मिन् राक्षसे पापकर्मणि ॥६-९१-८७॥
Vālmīki 6.91.88
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ॥६-९१-८८॥
Vālmīki 6.91.89
नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥६-९१-८९॥
Vālmīki 6.91.90
ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा।प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ॥६-९१-९०॥
Vālmīki 6.91.91
शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ॥६-९१-९१॥
Vālmīki 6.91.92
आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे।ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥६-९१-९२॥
Vālmīki 6.91.93
ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः।तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥६-९१-९३॥
Vālmīki 6.91.94
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥६-९१-९४॥
Vālmīki 6.91.95
क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥६-९१-९५॥
Vālmīki 6.91.96
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ॥६-९१-९६॥
Vālmīki 6.91.97
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः।चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥६-९१-९७॥
Vālmīki 6.91.98
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म।परममुपलभन् मनः प्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥६-९१-९८॥
Vālmīki 6.91.99
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकनवतितमः सर्गः ।। ९१ ।। ॥६-९१-९९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷