🪷 युद्धकाण्ड · Sarga 92

Yuddha-Kāṇḍa · The Book of War · Sarga 92 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.92.1
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥६-९२-१॥
Vālmīki 6.92.2
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान्।सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ॥६-९२-२॥
Vālmīki 6.92.3
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ।विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥६-९२-३॥
Vālmīki 6.92.4
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ॥६-९२-४॥
Vālmīki 6.92.5
निष्टनन्निव चागम्य राघवाय महात्मने।आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥६-९२-५॥
Vālmīki 6.92.6
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥६-९२-६॥
Vālmīki 6.92.7
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्।प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ॥६-९२-७॥
Vālmīki 6.92.8
साधु लक्ष्मण तुष्टो ऽस्मि कर्मणा सुकृतं कृतम्।रावणेर्हि विनाशेन जितमित्युपधारय ॥६-९२-८॥
Vālmīki 6.92.9
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्।लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ॥६-९२-९॥
Vālmīki 6.92.10
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ॥६-९२-१०॥
Vālmīki 6.92.11
शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम्।रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ॥६-९२-११॥
Vālmīki 6.92.12
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ॥६-९२-१२॥
Vālmīki 6.92.13
कृतं परमकल्याणं कर्म दुष्करकर्मणा।अद्य मन्ये हते पुत्रे रावणं निहतं युधि।अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ॥६-९२-१३॥
Vālmīki 6.92.14
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे।छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यापश्रयः ॥६-९२-१४॥
Vālmīki 6.92.15
विभीषणहनूमद्भयां कृतं कर्म महद्रणे।अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ॥६-९२-१५॥
Vālmīki 6.92.16
निरमित्रः कृतो ऽस्म्यद्य निर्यास्यति हि रावणः।बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ॥६-९२-१६॥
Vālmīki 6.92.17
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम्।बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥६-९२-१७॥
Vālmīki 6.92.18
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ॥६-९२-१८॥
Vālmīki 6.92.19
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः।रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥६-९२-१९॥
Vālmīki 6.92.20
सशल्यो ऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः।यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥६-९२-२०॥
Vālmīki 6.92.21
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः।ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥६-९२-२१॥
Vālmīki 6.92.22
ये चाप्यन्ये ऽत्र युध्यन्ति सशल्या व्रणिनस्तथा।ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥६-९२-२२॥
Vālmīki 6.92.23
एवमुक्तस्तु रामेण महात्मा हरियूथपः।लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ॥६-९२-२३॥
Vālmīki 6.92.24
स तस्या गन्धमाघ्राय विशल्यः समपद्यत।तथा निर्वेदनश्चैव संरूढव्रण एव च ॥६-९२-२४॥
Vālmīki 6.92.25
विभीषणमुखानां च सुहृदां राघवाज्ञया।सर्ववानरमुख्यानां चिकित्सां स तदा ऽकरोत् ॥६-९२-२५॥
Vālmīki 6.92.26
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः।सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥६-९२-२६॥
Vālmīki 6.92.27
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्।अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥६-९२-२७॥
Vālmīki 6.92.28
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा।हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥६-९२-२८॥
Vālmīki 6.92.29
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः ।। ९२ ।। ॥६-९२-२९॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷