🪷 युद्धकाण्ड · Sarga 93
Yuddha-Kāṇḍa · The Book of War · Sarga 93 · 68 ślokas
🪷 Devanāgarī Ślokas
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम्।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥६-९३-१॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।विभीषणसहायेन मिषतां नो महाद्युतिः ॥६-९३-२॥
शूरः शूरेण सङ्गम्य संयुगेष्वपरजितः।लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित्।गतः स परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् ॥६-९३-३॥
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ॥६-९३-४॥
उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥६-९३-५॥
हा राक्षसचमूमुख्य मम वत्स महारथ।जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥६-९३-६॥
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥६-९३-७॥
अद्य वैवस्वतो राजा भूयो बहुमतो मम।येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥६-९३-८॥
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥६-९३-९॥
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति।अद्य देवगणाः सर्वे लोकपालास्तथर्षयः।हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥६-९३-१०॥
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥६-९३-११॥
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥६-९३-१२॥
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप।मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः ॥६-९३-१३॥
मम नाम त्वया वीर गतस्य यमसादनम्।प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥६-९३-१४॥
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।मम शल्यमनुद्धृत्य क्व गतो ऽसि विहाय नः ॥६-९३-१५॥
एवमादिविलापार्तं रावणं राक्षसाधिपम्।आविवेश महान् कोपः पुत्रव्यसनसम्भवः ॥६-९३-१६॥
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।दीप्तं सन्दीपयामासुर्घर्मे ऽर्कमिव रश्मयः ॥६-९३-१७॥
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत।युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥६-९३-१८॥
कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन्।उत्पपात स भूयो ऽग्निर्वृत्रस्य वदनादिव ॥६-९३-१९॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ॥६-९३-२०॥
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निना ऽपि च।रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥६-९३-२१॥
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम्।बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् ॥६-९३-२२॥
तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥६-९३-२३॥
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥६-९३-२४॥
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत।तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ॥६-९३-२५॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥६-९३-२६॥
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥६-९३-२७॥
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ॥६-९३-२८॥
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥६-९३-२९॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥६-९३-३०॥
तेन मामद्य संयुक्तं रथस्थमिह संयुगे।प्रतीयात् को ऽद्य मामाजौ साक्षादपि पुरन्दरः ॥६-९३-३१॥
यत्तदा ऽभिप्रसन्नेन सशरं कार्मुकं महत्।देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ॥६-९३-३२॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।रामलक्ष्मणयोरेव वधाय परमाहवे ॥६-९३-३३॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥६-९३-३४॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ॥६-९३-३५॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ॥६-९३-३६॥
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥६-९३-३७॥
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ॥६-९३-३८॥
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्।निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥६-९३-३९॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः।सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥६-९३-४०॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः।ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ॥६-९३-४१॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥६-९३-४२॥
बहवः शत्रवश्चापि संयुगेषु निपातिताः।त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥६-९३-४३॥
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥६-९३-४४॥
तेषां सञ्जल्पमानानामशोकवनिकां गताम्।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥६-९३-४५॥
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः।अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ॥६-९३-४६॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥६-९३-४७॥
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम्।सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥६-९३-४८॥
यथा ऽयं मामभिक्रुद्धः समभिद्रवति स्वयम्।वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥६-९३-४९॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम्।भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥६-९३-५०॥
सो ऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥६-९३-५१॥
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ।मन्निमित्तमनार्येण समरे ऽद्य निपातितौ।अहो धिङ्मन्निमित्तो ऽयं विनाशो राजपुत्रयोः ॥६-९३-५२॥
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥६-९३-५३॥
हनूमतो ऽपि यद्वाक्यं न कृतं क्षुद्रया मया ॥६-९३-५४॥
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥६-९३-५५॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥६-९३-५६॥
सा हि जन्म च बाल्यं च यौवनं च महात्मनः।धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ॥६-९३-५७॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना।अग्निमारोक्ष्यते नूनमपो वा ऽपि प्रवेक्ष्यति ॥६-९३-५८॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥६-९३-५९॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥६-९३-६०॥
एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः।सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम्।निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥६-९३-६१॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ॥६-९३-६२॥
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥६-९३-६३॥
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥६-९३-६४॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥६-९३-६५॥
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥६-९३-६६॥
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः।गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ॥६-९३-६७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिनवतितमः सर्गः ।। ९३ ।। ॥६-९३-६८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 92
- Next: Yuddha-Kāṇḍa Sarga 94 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷