🪷 युद्धकाण्ड · Sarga 94

Yuddha-Kāṇḍa · The Book of War · Sarga 94 · 40 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.94.1
स प्रविश्य सभां राजा दीनः परमदुःखितः।निषसादासने सिंहः क्रुद्ध इव श्वसन् ॥६-९४-१॥
Vālmīki 6.94.2
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः।रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥६-९४-२॥
Vālmīki 6.94.3
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥६-९४-३॥
Vālmīki 6.94.4
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥६-९४-४॥
Vālmīki 6.94.5
अथवा ऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥६-९४-५॥
Vālmīki 6.94.6
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः।निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ॥६-९४-६॥
Vālmīki 6.94.7
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्।शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥६-९४-७॥
Vālmīki 6.94.8
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः ॥६-९४-८॥
Vālmīki 6.94.9
स सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति।रक्षसां वानराणां च तुमुलः समपद्यत ॥६-९४-९॥
Vālmīki 6.94.10
ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥६-९४-१०॥
Vālmīki 6.94.11
एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः।रक्षसां वानराणां च शान्तं शोणितविस्रवैः ॥६-९४-११॥
Vālmīki 6.94.12
मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ॥६-९४-१२॥
Vālmīki 6.94.13
ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः।ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे ॥६-९४-१३॥
Vālmīki 6.94.14
केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ॥६-९४-१४॥
Vālmīki 6.94.15
एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥६-९४-१५॥
Vālmīki 6.94.16
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥६-९४-१६॥
Vālmīki 6.94.17
राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः।शरण्यं शरणं याता रामं दशरथात्मजम् ॥६-९४-१७॥
Vālmīki 6.94.18
ततो रामो महातेजा धनुरादाय वीर्यवान्।प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥६-९४-१८॥
Vālmīki 6.94.19
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥६-९४-१९॥
Vālmīki 6.94.20
कृतान्येव सुघोराणि रामेण रजनीचराः।रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥६-९४-२०॥
Vālmīki 6.94.21
चालयन्तं महानीकं विधमन्तं महारथान्।ददृशुस्ते न वै रामं वातं वनगतं यथा ॥६-९४-२१॥
Vālmīki 6.94.22
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥६-९४-२२॥
Vālmīki 6.94.23
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥६-९४-२३॥
Vālmīki 6.94.24
एष हन्ति गजानीकमेष हन्ति महारथान्।एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ॥६-९४-२४॥
Vālmīki 6.94.25
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे।अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥६-९४-२५॥
Vālmīki 6.94.26
न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥६-९४-२६॥
Vālmīki 6.94.27
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥६-९४-२७॥
Vālmīki 6.94.28
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥६-९४-२८॥
Vālmīki 6.94.29
शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम्।ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ॥६-९४-२९॥
Vālmīki 6.94.30
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥६-९४-३०॥
Vālmīki 6.94.31
अनीकं दशसाहस्रं रथानां वातरंहसाम्।अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥६-९४-३१॥
Vālmīki 6.94.32
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥६-९४-३२॥
Vālmīki 6.94.33
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः।हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥६-९४-३३॥
Vālmīki 6.94.34
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥६-९४-३४॥
Vālmīki 6.94.35
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्।आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ॥६-९४-३५॥
Vālmīki 6.94.36
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।साधु साध्विति रामस्य तत् कर्म समपूजयन् ॥६-९४-३६॥
Vālmīki 6.94.37
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥६-९४-३७॥
Vālmīki 6.94.38
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च।एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥६-९४-३८॥
Vālmīki 6.94.39
निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा।अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥६-९४-३९॥
Vālmīki 6.94.40
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्नवतितमः सर्गः ।। ९४ ।। ॥६-९४-४०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷