🪷 युद्धकाण्ड · Sarga 95

Yuddha-Kāṇḍa · The Book of War · Sarga 95 · 41 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.95.1
तानि तानि सहस्राणि सारोहाणां च वाजिनाम्।रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥६-९५-१॥
Vālmīki 6.95.2
राक्षसानां सहस्राणि गदापरिघयोधिनाम्।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥६-९५-२॥
Vālmīki 6.95.3
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः।रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥६-९५-३॥
Vālmīki 6.95.4
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः।राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥६-९५-४॥
Vālmīki 6.95.5
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ॥६-९५-५॥
Vālmīki 6.95.6
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी।आससाद वने रामं कन्दर्पमिव रूपिणम्।सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ॥६-९५-६॥
Vālmīki 6.95.7
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।। ६.९५.७ ।।न्दर्पमिव रूपिणम्।कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्।सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥६-९५-७॥
Vālmīki 6.95.8
जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा।अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥६-९५-८॥
Vālmīki 6.95.9
राक्षसानां विनाशाय दूषणस्य खरस्य च।चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥६-९५-९॥
Vālmīki 6.95.10
तन्निमित्तमिदं वैरं रावणेन कृतं महत्।वधाय सीता सा ऽ ऽनीता दशग्रीवेण रक्षसा ॥६-९५-१०॥
Vālmīki 6.95.11
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।बद्धं बलवता वैरमक्षयं राघवेण च ॥६-९५-११॥
Vālmīki 6.95.12
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्।हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥६-९५-१२॥
Vālmīki 6.95.13
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥६-९५-१३॥
Vālmīki 6.95.14
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा।शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ॥६-९५-१४॥
Vālmīki 6.95.15
हतो योजनबाहुश्च कबन्धो रुधिराशनः।क्रोधान्नादं नदन् सो ऽथ पर्याप्तं तन्निदर्शनम् ॥६-९५-१५॥
Vālmīki 6.95.16
जघान बलिनं रामः सहस्रनयनात्मजम्।वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ॥६-९५-१६॥
Vālmīki 6.95.17
ऋष्यमूके वसन् शैले दीनो भग्नमनोरथः।सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ॥६-९५-१७॥
Vālmīki 6.95.18
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥६-९५-१८॥
Vālmīki 6.95.19
विभीषणवचः कुर्याद्यदि स्म धनदानुजः।श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥६-९५-१९॥
Vālmīki 6.95.20
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्।अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥६-९५-२०॥
Vālmīki 6.95.21
मम पुत्रो मम भ्राता मम भर्ता रणे हतः।इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ॥६-९५-२१॥
Vālmīki 6.95.22
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः।रणे रामेण शूरेण राक्षसाश्च पदातयः ॥६-९५-२२॥
Vālmīki 6.95.23
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥६-९५-२३॥
Vālmīki 6.95.24
हतप्रवीरा रामेण निराशा जीविते वयम्।अपश्यन्तो भयस्यान्तमनाथा विलपामहे ॥६-९५-२४॥
Vālmīki 6.95.25
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः।इदं भयं महाघोरमुत्पन्नं नावबुध्यते ॥६-९५-२५॥
Vālmīki 6.95.26
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥६-९५-२६॥
Vālmīki 6.95.27
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ॥६-९५-२७॥
Vālmīki 6.95.28
पितामहेन प्रीतेन देवदानवराक्षसैः।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ॥६-९५-२८॥
Vālmīki 6.95.29
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम्।जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥६-९५-२९॥
Vālmīki 6.95.30
पीड्यमानास्तु बलिना वरदानेन रक्षसा।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥६-९५-३०॥
Vālmīki 6.95.31
देवतानां हितार्थाय महात्मा वै पितामहः।उवाच देवताः सर्वा इदं तुष्टो महद्वचः ॥६-९५-३१॥
Vālmīki 6.95.32
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥६-९५-३२॥
Vālmīki 6.95.33
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ॥६-९५-३३॥
Vālmīki 6.95.34
प्रसन्नस्तु महादेवो देवानेतद्वचो ऽब्रवीत्।उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥६-९५-३४॥
Vālmīki 6.95.35
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा।भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ॥६-९५-३५॥
Vālmīki 6.95.36
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।अयं निष्ठानको घोरः शोकेन समभिप्लुतः ॥६-९५-३६॥
Vālmīki 6.95.37
तं न पश्यामहे लोके यो नः शरणदो भवेत्।राघवेणोपसृष्टानां कालेनेव युगक्षये ॥६-९५-३७॥
Vālmīki 6.95.38
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम्।दवाग्निवेष्टितानां हि करेणूनां यथा वने ॥६-९५-३८॥
Vālmīki 6.95.39
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना।यत एव भयं दृष्टं तमेव शरणं गतः ॥६-९५-३९॥
Vālmīki 6.95.40
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः।विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥६-९५-४०॥
Vālmīki 6.95.41
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः ।। ९५ ।। ॥६-९५-४१॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷