🪷 युद्धकाण्ड · Sarga 96

Yuddha-Kāṇḍa · The Book of War · Sarga 96 · 47 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.96.1
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥६-९६-१॥
Vālmīki 6.96.2
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः।बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥६-९६-२॥
Vālmīki 6.96.3
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्च्छितः ॥६-९६-३॥
Vālmīki 6.96.4
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥६-९६-४॥
Vālmīki 6.96.5
महोदरमाहपार्श्वौ विरूपाक्षं च राक्षसम्।शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥६-९६-५॥
Vālmīki 6.96.6
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥६-९६-६॥
Vālmīki 6.96.7
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः।कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ॥६-९६-७॥
Vālmīki 6.96.8
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः।तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥६-९६-८॥
Vālmīki 6.96.9
अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥६-९६-९॥
Vālmīki 6.96.10
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः।राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥६-९६-१०॥
Vālmīki 6.96.11
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥६-९६-११॥
Vālmīki 6.96.12
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः।प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥६-९६-१२॥
Vālmīki 6.96.13
अद्य वानरमुख्यानां तानि यूथानि भागशः।धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥६-९६-१३॥
Vālmīki 6.96.14
अद्य वानरसैन्यानि रथेन पवनौजसा।धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥६-९६-१४॥
Vālmīki 6.96.15
आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥६-९६-१५॥
Vālmīki 6.96.16
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः।मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥६-९६-१६॥
Vālmīki 6.96.17
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्।मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥६-९६-१७॥
Vālmīki 6.96.18
हतो भर्ता हतो भ्राता यासां च तनया हताः।वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ॥६-९६-१८॥
Vālmīki 6.96.19
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः।करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥६-९६-१९॥
Vālmīki 6.96.20
अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे।सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ॥६-९६-२०॥
Vālmīki 6.96.21
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।अनुप्रयान्तु मां सर्वे ये ऽवशिष्टा निशाचराः ॥६-९६-२१॥
Vālmīki 6.96.22
तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद्वचः।बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ॥६-९६-२२॥
Vālmīki 6.96.23
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्।चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ॥६-९६-२३॥
Vālmīki 6.96.24
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥६-९६-२४॥
Vālmīki 6.96.25
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हुलैः।शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥६-९६-२५॥
Vālmīki 6.96.26
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः।भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥६-९६-२६॥
Vālmīki 6.96.27
अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया।द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥६-९६-२७॥
Vālmīki 6.96.28
आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ॥६-९६-२८॥
Vālmīki 6.96.29
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ॥६-९६-२९॥
Vālmīki 6.96.30
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥६-९६-३०॥
Vālmīki 6.96.31
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्।नादं घोरं विमुञ्जन्तो निर्ययुर्जयकांक्षिणः ॥६-९६-३१॥
Vālmīki 6.96.32
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥६-९६-३२॥
Vālmīki 6.96.33
ततः प्रजवनाश्वेन रथेन स महारथः।द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥६-९६-३३॥
Vālmīki 6.96.34
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ॥६-९६-३४॥
Vālmīki 6.96.35
द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी।ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ॥६-९६-३५॥
Vālmīki 6.96.36
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः।नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ॥६-९६-३६॥
Vālmīki 6.96.37
विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वरः ॥६-९६-३७॥
Vālmīki 6.96.38
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥६-९६-३८॥
Vālmīki 6.96.39
अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना।विनेदुरशिवा गृध्रा वायसैरनुनादिताः ॥६-९६-३९॥
Vālmīki 6.96.40
एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्।निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥६-९६-४०॥
Vālmīki 6.96.41
तेषां तु रथघोषेण राक्षसानां महात्मनाम्।वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥६-९६-४१॥
Vālmīki 6.96.42
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥६-९६-४२॥
Vālmīki 6.96.43
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।वानराणामनीकेषु चकार कदनं महत् ॥६-९६-४३॥
Vālmīki 6.96.44
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः।केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः।निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ॥६-९६-४४॥
Vālmīki 6.96.45
केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ॥६-९६-४५॥
Vālmīki 6.96.46
दशाननः क्रोधविवृत्तनेत्रो यतो यतो ऽभ्येति रथेन सङ्ख्ये।ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ॥६-९६-४६॥
Vālmīki 6.96.47
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षण्णवतितमः सर्गः ।। ९६ ।। ॥६-९६-४७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷