🪷 युद्धकाण्ड · Sarga 97

Yuddha-Kāṇḍa · The Book of War · Sarga 97 · 37 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.97.1
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥६-९७-१॥
Vālmīki 6.97.2
रावणस्याप्रसह्यं तं शरसम्पातमेकतः।न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥६-९७-२॥
Vālmīki 6.97.3
ते ऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ॥६-९७-३॥
Vālmīki 6.97.4
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः।स ययौ समरे तस्मिन् विधमन् रावणः शरैः ॥६-९७-४॥
Vālmīki 6.97.5
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।आससाद ततो युद्धे राघवं त्वरितस्तदा ॥६-९७-५॥
Vālmīki 6.97.6
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे ऽद्भुतं मनः ॥६-९७-६॥
Vālmīki 6.97.7
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम्।सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥६-९७-७॥
Vālmīki 6.97.8
पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम्।अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ॥६-९७-८॥
Vālmīki 6.97.9
स नर्दन् युधि सुग्रीवः स्वरेण महता महान्।पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ॥६-९७-९॥
Vālmīki 6.97.10
ममन्थ च महाकायो राक्षसान् वानरेश्वरः।युगान्तसमये वायुः प्रवृद्धानगमानिव ॥६-९७-१०॥
Vālmīki 6.97.11
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥६-९७-११॥
Vālmīki 6.97.12
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥६-९७-१२॥
Vālmīki 6.97.13
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः।सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥६-९७-१३॥
Vālmīki 6.97.14
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥६-९७-१४॥
Vālmīki 6.97.15
स तं द्विरदमारुह्य विरूपाक्षो महारथः।विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ॥६-९७-१५॥
Vālmīki 6.97.16
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ॥६-९७-१६॥
Vālmīki 6.97.17
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।चक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥६-९७-१७॥
Vālmīki 6.97.18
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः।अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥६-९७-१८॥
Vālmīki 6.97.19
स तु प्रहाराभिहतः सुग्रीवेण महागजः।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥६-९७-१९॥
Vālmīki 6.97.20
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्।राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥६-९७-२०॥
Vālmīki 6.97.21
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥६-९७-२१॥
Vālmīki 6.97.22
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥६-९७-२२॥
Vālmīki 6.97.23
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः।अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥६-९७-२३॥
Vālmīki 6.97.24
तेन खड्गप्रहारेण रक्षसा बलिना हतः।मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ॥६-९७-२४॥
Vālmīki 6.97.25
स तदा सहसोत्पत्य राक्षसस्य महाहवे।मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥६-९७-२५॥
Vālmīki 6.97.26
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः।तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे।कवचं पातयामास पद्भ्यामभिहतो ऽपतत् ॥६-९७-२६॥
Vālmīki 6.97.27
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्।तलप्रहारमशनेः समानं भीमनिस्वनम् ॥६-९७-२७॥
Vālmīki 6.97.28
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्।नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥६-९७-२८॥
Vālmīki 6.97.29
ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः।मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥६-९७-२९॥
Vālmīki 6.97.30
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ।। ६.९७.३० ।।दीप्तं पतङ्गा ज्वलनं यथा ॥६-९७-३०॥
Vālmīki 6.97.31
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।। ६.९७.३१ ।।।।दीप्तं पतङ्गा ज्वलनं यथा ॥६-९७-३१॥
Vālmīki 6.97.32
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन्।स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥६-९७-३२॥
Vālmīki 6.97.33
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥६-९७-३३॥
Vālmīki 6.97.34
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥६-९७-३४॥
Vālmīki 6.97.35
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम्।बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥६-९७-३५॥
Vālmīki 6.97.36
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन।बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥६-९७-३६॥
Vālmīki 6.97.37
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।। ॥६-९७-३७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷