🪷 युद्धकाण्ड · Sarga 98

Yuddha-Kāṇḍa · The Book of War · Sarga 98 · 37 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.98.1
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥६-९८-१॥
Vālmīki 6.98.2
स्वबलस्य विघातेन विरूपाक्षवधेन च।बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥६-९८-२॥
Vālmīki 6.98.3
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः।बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।उवाच च समीपस्थं महोदरमरिन्दमम् ॥६-९८-३॥
Vālmīki 6.98.4
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता।जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ॥६-९८-४॥
Vālmīki 6.98.5
भर्तृपिण्डस्य कालो ऽयं निर्देष्टुं साधु युध्यताम् ॥६-९८-५॥
Vālmīki 6.98.6
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥६-९८-६॥
Vālmīki 6.98.7
ततः स कदनं चक्रे वानराणां महाबलः।भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥६-९८-७॥
Vālmīki 6.98.8
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥६-९८-८॥
Vālmīki 6.98.9
महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः।चिच्छेद पाणिपादोरून् वानराणां महाहवे ॥६-९८-९॥
Vālmīki 6.98.10
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥६-९८-१०॥
Vālmīki 6.98.11
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्।अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥६-९८-११॥
Vālmīki 6.98.12
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।चिक्षेप च महातेजास्तद्वधाय हरीस्वरः ॥६-९८-१२॥
Vālmīki 6.98.13
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥६-९८-१३॥
Vālmīki 6.98.14
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥६-९८-१४॥
Vālmīki 6.98.15
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥६-९८-१५॥
Vālmīki 6.98.16
शरैश्च विददारैनं शूरः परपुरञ्जयः ।। ६.९८.१६ ।।्च्छितः।स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।। ६.९८.१७ ।।तः।आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥६-९८-१६॥
Vālmīki 6.98.17
तस्माद्धतहयाद्वीरः सो ऽवप्लुत्य महारथात्।गदां जग्राह सङ्क्रुद्धो राक्षसो ऽथ महोदरः ॥६-९८-१७॥
Vālmīki 6.98.18
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ॥६-९८-१८॥
Vālmīki 6.98.19
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥६-९८-१९॥
Vālmīki 6.98.20
गदां तां सुमहाघोरामापतन्तीं महाबलः।सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे।आजघान गदां तस्य परिघेण हरीश्वरः ॥६-९८-२०॥
Vālmīki 6.98.21
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ।। ६.९८.२३ ।।ोषताम्राक्षः समुद्यम्य महाहवे।ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥६-९८-२१॥
Vālmīki 6.98.22
स तमुद्यम्य चिक्षेप सो ऽप्यन्यां व्याक्षिपद्गदाम्।भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥६-९८-२२॥
Vālmīki 6.98.23
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥६-९८-२३॥
Vālmīki 6.98.24
जघ्नतुस्तौ तदा ऽन्योन्यं नेदतुश्च पुनःपुनः।तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥६-९८-२४॥
Vālmīki 6.98.25
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्।भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ।जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ॥६-९८-२५॥
Vālmīki 6.98.26
आजहार ततः खड्गमदूरपरिवर्तिनम्।राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥६-९८-२६॥
Vālmīki 6.98.27
तथैव च महाखड्गं चर्मणा पतितं सह।जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥६-९८-२७॥
Vālmīki 6.98.28
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्।उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥६-९८-२८॥
Vālmīki 6.98.29
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ॥६-९८-२९॥
Vālmīki 6.98.30
स तु शूरो महावेगो वीर्यश्लाघी महोदरः।महाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥६-९८-३०॥
Vālmīki 6.98.31
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥६-९८-३१॥
Vālmīki 6.98.32
निकृत्तशिरसस्तस्य पतितस्य महीतले।तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥६-९८-३२॥
Vālmīki 6.98.33
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥६-९८-३३॥
Vālmīki 6.98.34
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥६-९८-३४॥
Vālmīki 6.98.35
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्।सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥६-९८-३५॥
Vālmīki 6.98.36
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः।अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ॥६-९८-३६॥
Vālmīki 6.98.37
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टनवतितमः सर्गः ।। ९८ ।। ॥६-९८-३७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷