🪷 युद्धकाण्ड · Sarga 99

Yuddha-Kāṇḍa · The Book of War · Sarga 99 · 27 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.99.1
महोदरे तु निहते महापार्श्वो महाबलः।सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥६-९९-१॥
Vālmīki 6.99.2
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥६-९९-२॥
Vālmīki 6.99.3
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः।वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ॥६-९९-३॥
Vālmīki 6.99.4
ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥६-९९-४॥
Vālmīki 6.99.5
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥६-९९-५॥
Vālmīki 6.99.6
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥६-९९-६॥
Vālmīki 6.99.7
स तु तेन प्रहारेण महापार्श्वो विचेतनः।ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ॥६-९९-७॥
Vālmīki 6.99.8
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ॥६-९९-८॥
Vālmīki 6.99.9
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम्।अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम् ॥६-९९-९॥
Vālmīki 6.99.10
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥६-९९-१०॥
Vālmīki 6.99.11
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥६-९९-११॥
Vālmīki 6.99.12
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ॥६-९९-१२॥
Vālmīki 6.99.13
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम्।दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥६-९९-१३॥
Vālmīki 6.99.14
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ॥६-९९-१४॥
Vālmīki 6.99.15
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥६-९९-१५॥
Vālmīki 6.99.16
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ॥६-९९-१६॥
Vālmīki 6.99.17
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥६-९९-१७॥
Vālmīki 6.99.18
तं तैलधौतं विमलं शैलसारमयं दृढम्।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥६-९९-१८॥
Vālmīki 6.99.19
तेन वामांसफलके भृशं प्रत्यवपादितम्।अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥६-९९-१९॥
Vālmīki 6.99.20
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः।संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ॥६-९९-२०॥
Vālmīki 6.99.21
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥६-९९-२१॥
Vālmīki 6.99.22
तेन तस्य निपातेन राक्षसस्य महामृधे।पफाल हृदयं चाशु स पपात हतो भुवि ॥६-९९-२२॥
Vālmīki 6.99.23
तस्मिन्निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।अभवच्च महान् क्रोधः समरे रावणस्य तु ॥६-९९-२३॥
Vālmīki 6.99.24
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः।स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ॥६-९९-२४॥
Vālmīki 6.99.25
महेन्द्रेणेव देवानां नादः समभवन्महान् ॥६-९९-२५॥
Vālmīki 6.99.26
अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम्।श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखो ऽवतस्थे ॥६-९९-२६॥
Vālmīki 6.99.27
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनशततमः सर्गः ।। ९९ ।। ॥६-९९-२७॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷