🪷 युद्धकाण्ड · Sarga 100

Yuddha-Kāṇḍa · The Book of War · Sarga 100 · 52 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.100.1
महोदरमहापार्शो हतौ दृष्ट्वा तु राक्षसौ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले।आविवेश महान् क्रोधो रावणं तं महामृधे ॥६-१००-१॥
Vālmīki 6.100.2
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥६-१००-२॥
Vālmīki 6.100.3
निहतानाममात्यानां रुद्धस्य नगरस्य च।दुःखमेषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥६-१००-३॥
Vālmīki 6.100.4
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥६-१००-४॥
Vālmīki 6.100.5
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः।हमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥६-१००-५॥
Vālmīki 6.100.6
स दिशो दश धोषेण रथस्यातिरथो महान्।नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥६-१००-६॥
Vālmīki 6.100.7
पूरिता तेन शब्देन सनदीगिरिकानना।सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥६-१००-७॥
Vālmīki 6.100.8
तामसं स महाघोरं चकारास्त्रं सुदारुणम्।निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥६-१००-८॥
Vālmīki 6.100.9
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः।न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥६-१००-९॥
Vālmīki 6.100.10
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥६-१००-१०॥
Vālmīki 6.100.11
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।स ददर्श ततो रामं तिष्ठन्तमपारजितम् ॥६-१००-११॥
Vālmīki 6.100.12
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा।आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ॥६-१००-१२॥
Vālmīki 6.100.13
ततो रामो महातेजाः सौमित्रिसहितो बली।वानरांश्च रणे भग्नानापतन्तं च रावणम् ॥६-१००-१३॥
Vālmīki 6.100.14
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥६-१००-१४॥
Vālmīki 6.100.15
विस्फारयितुमारेभे ततः स धनुरुत्तमम्।महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥६-१००-१५॥
Vālmīki 6.100.16
रावणस्य च बाणौघैरामविस्फारितेन च।शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥६-१००-१६॥
Vālmīki 6.100.17
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः।स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥६-१००-१७॥
Vālmīki 6.100.18
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥६-१००-१८॥
Vālmīki 6.100.19
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥६-१००-१९॥
Vālmīki 6.100.20
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥६-१००-२०॥
Vālmīki 6.100.21
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः।आससाद ततो रामं स्थितं शैलमिवाचलम् ॥६-१००-२१॥
Vālmīki 6.100.22
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः।व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥६-१००-२२॥
Vālmīki 6.100.23
शरधारास्ततो रामो रावणस्य धनुश्च्युताः।दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ॥६-१००-२३॥
Vālmīki 6.100.24
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ॥६-१००-२४॥
Vālmīki 6.100.25
राघवो रावणं तूर्णं रावणो राघवं तदा।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥६-१००-२५॥
Vālmīki 6.100.26
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ॥६-१००-२६॥
Vālmīki 6.100.27
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥६-१००-२७॥
Vālmīki 6.100.28
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा।घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥६-१००-२८॥
Vālmīki 6.100.29
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥६-१००-२९॥
Vālmīki 6.100.30
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः।शरान्धकारं तौ भीमं चक्रुतुः समरं तदा।गते ऽस्तं तपने चापि महामेघाविवोत्थितौ ॥६-१००-३०॥
Vālmīki 6.100.31
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥६-१००-३१॥
Vālmīki 6.100.32
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥६-१००-३२॥
Vālmīki 6.100.33
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥६-१००-३३॥
Vālmīki 6.100.34
ततः संसक्तहस्तस्तु रावणो लोकरावणः।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥६-१००-३४॥
Vālmīki 6.100.35
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ॥६-१००-३५॥
Vālmīki 6.100.36
अथ मन्त्रानभिजपन् रौद्रमस्त्रमुदीरयन्।शरान् भूयः समादाय रामः क्रोधसमन्वितः।मुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥६-१००-३६॥
Vālmīki 6.100.37
ते महामेघसङ्काशे कवचे पतिताः शराः।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥६-१००-३७॥
Vālmīki 6.100.38
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥६-१००-३८॥
Vālmīki 6.100.39
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥६-१००-३९॥
Vālmīki 6.100.40
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥६-१००-४०॥
Vālmīki 6.100.41
सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि।गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥६-१००-४१॥
Vālmīki 6.100.42
ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्।पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ॥६-१००-४२॥
Vālmīki 6.100.43
शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्।श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥६-१००-४३॥
Vālmīki 6.100.44
एतानन्यांश्च मायावी ससर्ज निशितान् शरान्।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥६-१००-४४॥
Vālmīki 6.100.45
आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥६-१००-४५॥
Vālmīki 6.100.46
अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥६-१००-४६॥
Vālmīki 6.100.47
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्।विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ॥६-१००-४७॥
Vālmīki 6.100.48
ते रावणशरा घोरा राघवास्त्रसमाहताः ॥६-१००-४८॥
Vālmīki 6.100.49
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥६-१००-४९॥
Vālmīki 6.100.50
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥६-१००-५०॥
Vālmīki 6.100.51
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्।मुदा ऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥६-१००-५१॥
Vālmīki 6.100.52
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे शततमः सर्गः ।। १०० ।। ॥६-१००-५२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷