🪷 युद्धकाण्ड · Sarga 101
Yuddha-Kāṇḍa · The Book of War · Sarga 101 · 64 ślokas
🪷 Devanāgarī Ślokas
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥६-१०१-१॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥६-१०१-२॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥६-१०१-३॥
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥६-१०१-४॥
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥६-१०१-५॥
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥६-१०१-६॥
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥६-१०१-७॥
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥६-१०१-८॥
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।आयुधानि च चित्राणि रावणस्य चमूमुखे ॥६-१०१-९॥
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥६-१०१-१०॥
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ॥६-१०१-११॥
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥६-१०१-१२॥
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥६-१०१-१३॥
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥६-१०१-१४॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥६-१०१-१५॥
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥६-१०१-१६॥
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ॥६-१०१-१७॥
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥६-१०१-१८॥
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥६-१०१-१९॥
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ॥६-१०१-२०॥
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥६-१०१-२१॥
ततः सम्भाविततरां कालेनापि दुरासदाम् ।जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥६-१०१-२२॥
सा वेगिता बलवता रावणेन दुरासदा ।जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥६-१०१-२३॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥६-१०१-२४॥
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥६-१०१-२५॥
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥६-१०१-२६॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥६-१०१-२७॥
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥६-१०१-२८॥
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥६-१०१-२९॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥६-१०१-३०॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥६-१०१-३१॥
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥६-१०१-३२॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥६-१०१-३३॥
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥६-१०१-३४॥
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥६-१०१-३५॥
ततो रावणवेगेन सुदूरमवगाढया ।शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥६-१०१-३६॥
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ॥६-१०१-३७॥
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।बभूव संरब्धतरो युगान्त इव पावकः ॥६-१०१-३८॥
न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ॥६-१०१-३९॥
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥६-१०१-४०॥
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥६-१०१-४१॥
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥६-१०१-४२॥
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥६-१०१-४३॥
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥६-१०१-४४॥
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥६-१०१-४५॥
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ॥६-१०१-४६॥
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥६-१०१-४७॥
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥६-१०१-४८॥
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥६-१०१-४९॥
राज्यनाशं वने वासं दण्डके परिधावनम् ।वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥६-१०१-५०॥
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥६-१०१-५१॥
यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥६-१०१-५२॥
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥६-१०१-५३॥
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥६-१०१-५४॥
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥६-१०१-५५॥
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥६-१०१-५६॥
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥६-१०१-५७॥
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।आजघान दशग्रीवं रणे रामः समाहितः ॥६-१०१-५८॥
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥६-१०१-५९॥
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ॥६-१०१-६०॥
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥६-१०१-६१॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥६-१०१-६२॥
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ॥६-१०१-६३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।। ॥६-१०१-६४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 100
- Next: Yuddha-Kāṇḍa Sarga 102 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷