🪷 युद्धकाण्ड · Sarga 101
Yuddha-Kāṇḍa · The Book of War · Sarga 101 · 64 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.101local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।। ६.१०१.१ ।।
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। ६.१०१.२ ।।
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।। ६.१०१.३ ।।
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।। ६.१०१.४ ।।
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।। ६.१०१.५ ।।
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।। ६.१०१.६ ।।
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।। ६.१०१.७ ।।
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।। ६.१०१.८ ।।
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।आयुधानि च चित्राणि रावणस्य चमूमुखे ।। ६.१०१.९ ।।
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।। ६.१०१.१० ।।
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ।। ६.१०१.११ ।।
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ।। ६.१०१.१२ ।।
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ।। ६.१०१.१३ ।।
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ।। ६.१०१.१४ ।।
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ।। ६.१०१.१५ ।।
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। ६.१०१.१६ ।।
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ।। ६.१०१.१७ ।।
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ।। ६.१०१.१८ ।।
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ।। ६.१०१.१९ ।।
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ।। ६.१०१.२० ।।
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ।। ६.१०१.२१ ।।
ततः सम्भाविततरां कालेनापि दुरासदाम् ।जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। ६.१०१.२२ ।।
सा वेगिता बलवता रावणेन दुरासदा ।जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। ६.१०१.२३ ।।
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ।। ६.१०१.२४ ।।
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ।। ६.१०१.२५ ।।
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। ६.१०१.२६ ।।
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ।। ६.१०१.२७ ।।
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ।। ६.१०१.२८ ।।
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ।। ६.१०१.२९ ।।
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।मयेन मायाविहिताममोघां शत्रुघातिनीम् ।। ६.१०१.३० ।।
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ६.१०१.३१ ।।
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ६.१०१.३२ ।।
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ।। ६.१०१.३३ ।।
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ६.१०१.३४ ।।
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ।। ६.१०१.३५ ।।
ततो रावणवेगेन सुदूरमवगाढया ।शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ६.१०१.३६ ।।
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ।। ६.१०१.३७ ।।
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।बभूव संरब्धतरो युगान्त इव पावकः ।। ६.१०१.३८ ।।
न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ६.१०१.३९ ।।
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।। ६.१०१.४० ।।
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।। ६.१०१.४१ ।।
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ।। ६.१०१.४२ ।।
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।। ६.१०१.४३ ।।
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ।। ६.१०१.४४ ।।
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।। ६.१०१.४५ ।।
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ।। ६.१०१.४६ ।।
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ।। ६.१०१.४७ ।।
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।। ६.१०१.४८ ।।
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।। ६.१०१.४९ ।।
राज्यनाशं वने वासं दण्डके परिधावनम् ।वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।। ६.१०१.५० ।।
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।। ६.१०१.५१ ।।
यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।। ६.१०१.५२ ।।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।। ६.१०१.५३ ।।
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।। ६.१०१.५४ ।।
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।। ६.१०१.५५ ।।
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।। ६.१०१.५६ ।।
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ६.१०१.५७ ।।
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।आजघान दशग्रीवं रणे रामः समाहितः ।। ६.१०१.५८ ।।
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ।। ६.१०१.५९ ।।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ।। ६.१०१.६० ।।
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ।। ६.१०१.६१ ।।
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ।। ६.१०१.६२ ।।
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ।। ६.१०१.६३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।।
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 100
- Next: Yuddha-Kāṇḍa Sarga 102 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷