🪷 युद्धकाण्ड · Sarga 102
Yuddha-Kāṇḍa · The Book of War · Sarga 102 · 44 ślokas
🪷 Devanāgarī Ślokas
शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥६-१०२-१॥
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ॥६-१०२-२॥
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥६-१०२-३॥
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥६-१०२-४॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥६-१०२-५॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ॥६-१०२-६॥
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।। ६.१०२.७ ।।सीदन्ति दृष्टिर्बाष्पवशं गता ।भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।। ६.१०२.८ ।।।सीदन्ति दृष्टिर्बाष्पवशं गता ।विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ।राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।दुःखेन महता ऽ ऽविष्टो ध्यानशोकपरायणः ॥६-१०२-७॥
परं विषादमापन्नो विललापाकुलेन्द्रियः ॥६-१०२-८॥
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥६-१०२-९॥
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥६-१०२-१०॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः ।तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥६-१०२-११॥
इत्यवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः ।राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ॥६-१०२-१२॥
न मृतो ऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥६-१०२-१३॥
सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥६-१०२-१४॥
एवं न विद्यते रूपं गतासूनां विशाम्पते ।दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् ॥६-१०२-१५॥
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।मा विषादं कृथा वीर सप्राणो ऽयमरिन्दमः ॥६-१०२-१६॥
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥६-१०२-१७॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥६-१०२-१८॥
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।पूर्वं ते कथितो यो ऽसौ वीर जाम्बवता शुभः ॥६-१०२-१९॥
दक्षिणे शिखरे तस्य जातमोषधिमानय ।विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ॥६-१०२-२०॥
सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ॥६-१०२-२१॥
सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ॥६-१०२-२२॥
अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् ।प्रतर्केणावगच्छामि सुषेणो ऽप्येवमब्रवीत् ॥६-१०२-२३॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ॥६-१०२-२४॥
इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः ।आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ॥६-१०२-२५॥
फुल्लनानातरुगणं समुत्पाट्य महाबलः ।गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥६-१०२-२६॥
स नीलमिव जीमूतं तोयपूर्णं नभस्थलात् ।आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ॥६-१०२-२७॥
समागम्य महावेगः सन्न्यस्य शिखरं गिरेः ।विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् ॥६-१०२-२८॥
ओषधिं नावगच्छामि तामहं हरिपुङ्गव ।तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥६-१०२-२९॥
एवं कथयमानं तं प्रशस्य पवनात्मजम् ।सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥६-१०२-३०॥
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ॥६-१०२-३१॥
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ।लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ॥६-१०२-३२॥
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥६-१०२-३३॥
तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् ।साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥६-१०२-३४॥
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ॥६-१०२-३५॥
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ॥६-१०२-३६॥
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ॥६-१०२-३७॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः ।खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥६-१०२-३८॥
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥६-१०२-३९॥
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवो ऽनघ ।लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥६-१०२-४०॥
नैराश्यमुपगन्तुं ते तदलं मत्कृते ऽनघ ।वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥६-१०२-४१॥
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः ।नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥६-१०२-४२॥
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥६-१०२-४३॥
यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्यवीर ॥६-१०२-४४॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 101
- Next: Yuddha-Kāṇḍa Sarga 103 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷