🪷 युद्धकाण्ड · Sarga 103
Yuddha-Kāṇḍa · The Book of War · Sarga 103 · 37 ślokas
🪷 Devanāgarī Ślokas
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ।रावणाय शरान् घोरान् विससर्ज चमूमुखे ॥६-१०३-१॥
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥६-१०३-२॥
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।आजघान महाघोरैर्धाराभिरिव तोयदः ॥६-१०३-३॥
दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः ।निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥६-१०३-४॥
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥६-१०३-५॥
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ॥६-१०३-६॥
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ॥६-१०३-७॥
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।देवराजेन सन्दिष्टो रथमारुह्य मातलिः ॥६-१०३-८॥
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥६-१०३-९॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥६-१०३-१०॥
सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते ।दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥६-१०३-११॥
इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ॥६-१०३-१२॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।मया सारथिना राजन् महेन्द्र इव दानवान् ॥६-१०३-१३॥
इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ॥६-१०३-१४॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।रामस्य च महाबाहो रावणस्य च रक्षसः ॥६-१०३-१५॥
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥६-१०३-१६॥
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥६-१०३-१७॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥६-१०३-१८॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥६-१०३-१९॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥६-१०३-२०॥
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे ।अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ॥६-१०३-२१॥
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥६-१०३-२२॥
ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान् ।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥६-१०३-२३॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥६-१०३-२४॥
ततः शरसहस्रेण राममक्लिष्टकारिणम् ।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥६-१०३-२५॥
चिच्छेद केतुमुद्धिश्य शरेणैकेन रावणः ।पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ।ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ॥६-१०३-२६॥
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ॥६-१०३-२७॥
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥६-१०३-२८॥
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ॥६-१०३-२९॥
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥६-१०३-३०॥
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥६-१०३-३१॥
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥६-१०३-३२॥
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥६-१०३-३३॥
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥६-१०३-३४॥
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि ॥६-१०३-३५॥
स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः ।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥६-१०३-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्युत्तरशततमः सर्गः ।। १०३ ।। ॥६-१०३-३७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 102
- Next: Yuddha-Kāṇḍa Sarga 104 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷