🪷 युद्धकाण्ड · Sarga 104

Yuddha-Kāṇḍa · The Book of War · Sarga 104 · 33 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.104.1
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥६-१०४-१॥
Vālmīki 6.104.2
सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः ।बभूव चातिक्षुभितः समुद्रः सरितां पतिः ॥६-१०४-२॥
Vālmīki 6.104.3
खगाश्च खरनिर्घोषा गगने परुषा घनाः ।औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ॥६-१०४-३॥
Vālmīki 6.104.4
रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान् ।वित्रेसुः सर्वभूतानि रावणस्याभवद्भयेम् ॥६-१०४-४॥
Vālmīki 6.104.5
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥६-१०४-५॥
Vālmīki 6.104.6
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ॥६-१०४-६॥
Vālmīki 6.104.7
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥६-१०४-७॥
Vālmīki 6.104.8
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।देवा राममथोचुस्ते त्वं जयेति पुनःपुनः ॥६-१०४-८॥
Vālmīki 6.104.9
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ॥६-१०४-९॥
Vālmīki 6.104.10
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥६-१०४-१०॥
Vālmīki 6.104.11
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥६-१०४-११॥
Vālmīki 6.104.12
त्रासनं सर्वभूतानां दारणं भेदनं तदा ।प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥६-१०४-१२॥
Vālmīki 6.104.13
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।अनेकैः समरे शूरै राक्षसैः परिवारितः ॥६-१०४-१३॥
Vālmīki 6.104.14
समुद्यम्य महाकायो ननाद युधि भैरवम् ।संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ॥६-१०४-१४॥
Vālmīki 6.104.15
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥६-१०४-१५॥
Vālmīki 6.104.16
अतिनादस्य नादेन तेन तस्य दुरात्मनः ।सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥६-१०४-१६॥
Vālmīki 6.104.17
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।विनद्य सुमहानादं रामं परुषमब्रवीत् ॥६-१०४-१७॥
Vālmīki 6.104.18
शूलो ऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥६-१०४-१८॥
Vālmīki 6.104.19
रक्षसामद्य शूराणां निहतानां चमूमुखे ।त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ।तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ॥६-१०४-१९॥
Vālmīki 6.104.20
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥६-१०४-२०॥
Vālmīki 6.104.21
तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् ।अष्टघण्टं महानादं वियद्गतमशोभत ॥६-१०४-२१॥
Vālmīki 6.104.22
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥६-१०४-२२॥
Vālmīki 6.104.23
आपतन्तं शरौघेण वारयामास राघवः ।उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥६-१०४-२३॥
Vālmīki 6.104.24
निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान् ।रावणस्य महाशूलः पतङ्गानिव पावकः ॥६-१०४-२४॥
Vālmīki 6.104.25
तान् दृष्ट्वा भस्मसाद्भूतान् शूल संस्पर्शचूर्णितान् ।सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ॥६-१०४-२५॥
Vālmīki 6.104.26
स तां मातलिना ऽ ऽनीतां शक्तिं वासवनिर्मिताम् ।जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥६-१०४-२६॥
Vālmīki 6.104.27
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥६-१०४-२७॥
Vālmīki 6.104.28
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह ।भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ॥६-१०४-२८॥
Vālmīki 6.104.29
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥६-१०४-२९॥
Vālmīki 6.104.30
निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥६-१०४-३०॥
Vālmīki 6.104.31
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥६-१०४-३१॥
Vālmīki 6.104.32
स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥६-१०४-३२॥
Vālmīki 6.104.33
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरुत्तरशततमः सर्गः ।। १०४ ।। ॥६-१०४-३३॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷