🪷 युद्धकाण्ड · Sarga 105
Yuddha-Kāṇḍa · The Book of War · Sarga 105 · 31 ślokas
🪷 Devanāgarī Ślokas
स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे ।रावणः समरश्लाघी महाक्रोधमुपागमत् ॥६-१०५-१॥
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे ॥६-१०५-२॥
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात् ।राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥६-१०५-३॥
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥६-१०५-४॥
स शरैः शरजालानि वारयन् समरे स्थितः ।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥६-१०५-५॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥६-१०५-६॥
स शोणित समादिग्धः समरे लक्ष्मणाग्रजः ।दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ॥६-१०५-७॥
शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् ।काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥६-१०५-८॥
ततो ऽयोन्यं सुसंरब्धावुभौ तौ रामरावणौ ।शरान्धकारे समरे नोपालक्षयतां तदा ॥६-१०५-९॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।उवाच रावणं वीरः प्रहस्य परुषं वचः ॥६-१०५-१०॥
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥६-१०५-११॥
मया विरहितां दीनां वर्तमानां महावने ।वैदेहीं प्रसभं हृत्वा शूरो ऽहमिति मन्यसे ॥६-१०५-१२॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।कृत्वा कापुरुषं कर्म शूरो ऽहमिति मन्यसे ॥६-१०५-१३॥
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।दर्पान्मृत्युमुपादाय शूरो ऽहमिति मन्यसे ॥६-१०५-१४॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥६-१०५-१५॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ॥६-१०५-१६॥
शूरो ऽहमिति चात्मानमवगच्छसि दुर्मते ।नैव लज्जा ऽस्ति ते सीतां चोरवद् व्यपकर्षतः ॥६-१०५-१७॥
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥६-१०५-१८॥
दिष्ट्या ऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥६-१०५-१९॥
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥६-१०५-२०॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥६-१०५-२१॥
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥६-१०५-२२॥
इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥६-१०५-२३॥
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥६-१०५-२४॥
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।प्रहर्षाच्च महातेजाः शीघ्रहस्ततरो ऽभवत् ॥६-१०५-२५॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥६-१०५-२६॥
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् ॥६-१०५-२७॥
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ॥६-१०५-२८॥
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः ॥६-१०५-२९॥
सूतस्तु रथनेता ऽस्य तदवस्थं समीक्ष्य तम् ।शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥६-१०५-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ।। १०५ ।। ॥६-१०५-३१॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 104
- Next: Yuddha-Kāṇḍa Sarga 106 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷