🪷 युद्धकाण्ड · Sarga 106

Yuddha-Kāṇḍa · The Book of War · Sarga 106 · 30 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.106.1
स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥६-१०६-१॥
Vālmīki 6.106.2
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥६-१०६-२॥
Vālmīki 6.106.3
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥६-१०६-३॥
Vālmīki 6.106.4
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।त्वया शत्रोः समक्षं मे रथो ऽयमपवाहितः ॥६-१०६-४॥
Vālmīki 6.106.5
त्वया ऽद्य हि ममानार्य चिरकालसमार्जितम् ।यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥६-१०६-५॥
Vālmīki 6.106.6
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस्त्वया ॥६-१०६-६॥
Vālmīki 6.106.7
यस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते ।सत्यो ऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥६-१०६-७॥
Vālmīki 6.106.8
न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ॥६-१०६-८॥
Vālmīki 6.106.9
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।यदि वा ऽध्युषितो वा ऽसि स्मर्यन्ते यदि वा गुणाः ॥६-१०६-९॥
Vālmīki 6.106.10
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।अब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥६-१०६-१०॥
Vālmīki 6.106.11
न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः ।न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥६-१०६-११॥
Vālmīki 6.106.12
मया तु हितकामेन यशश्च परिरक्षता ।स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥६-१०६-१२॥
Vālmīki 6.106.13
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥६-१०६-१३॥
Vālmīki 6.106.14
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।नदीवेग इवाभोगे संयुगे विनिवर्तितः ॥६-१०६-१४॥
Vālmīki 6.106.15
क्षमं तवावगच्छामि महता रणकर्मणा ।न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥६-१०६-१५॥
Vālmīki 6.106.16
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥६-१०६-१६॥
Vālmīki 6.106.17
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥६-१०६-१७॥
Vālmīki 6.106.18
देशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च ।दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥६-१०६-१८॥
Vālmīki 6.106.19
स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥६-१०६-१९॥
Vālmīki 6.106.20
उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥६-१०६-२०॥
Vālmīki 6.106.21
तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥६-१०६-२१॥
Vālmīki 6.106.22
न मया स्वेच्छया वीर रथो ऽयमपवाहितः ॥६-१०६-२२॥
Vālmīki 6.106.23
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥६-१०६-२३॥
Vālmīki 6.106.24
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥६-१०६-२४॥
Vālmīki 6.106.25
सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीदिदम् ॥६-१०६-२५॥
Vālmīki 6.106.26
रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥६-१०६-२६॥
Vālmīki 6.106.27
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ॥६-१०६-२७॥
Vālmīki 6.106.28
श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ॥६-१०६-२८॥
Vālmīki 6.106.29
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः ।स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतो ऽभवत् ॥६-१०६-२९॥
Vālmīki 6.106.30
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।। ॥६-१०६-३०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷