🪷 युद्धकाण्ड · Sarga 107

Yuddha-Kāṇḍa · The Book of War · Sarga 107 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.107.1
।। आदित्यहृदयप्रारम्भः ।।ततो युद्धपरिश्रन्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥६-१०७-१॥
Vālmīki 6.107.2
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥६-१०७-२॥
Vālmīki 6.107.3
राम राम महाबाहो शृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥६-१०७-३॥
Vālmīki 6.107.4
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥६-१०७-४॥
Vālmīki 6.107.5
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥६-१०७-५॥
Vālmīki 6.107.6
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६-१०७-६॥
Vālmīki 6.107.7
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।एष देवासुरगणान् लोकान् पाति गभिस्तिभिः ॥६-१०७-७॥
Vālmīki 6.107.8
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥६-१०७-८॥
Vālmīki 6.107.9
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजापाण ऋतुकर्ता प्रभाकरः ॥६-१०७-९॥
Vālmīki 6.107.10
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥६-१०७-१०॥
Vālmīki 6.107.11
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥६-१०७-११॥
Vālmīki 6.107.12
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।अग्निगर्भो ऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥६-१०७-१२॥
Vālmīki 6.107.13
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥६-१०७-१३॥
Vālmīki 6.107.14
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥६-१०७-१४॥
Vālmīki 6.107.15
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।तेजसामपि तेजस्वी द्वादशात्मन्नमो ऽस्तु ते ॥६-१०७-१५॥
Vālmīki 6.107.16
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥६-१०७-१६॥
Vālmīki 6.107.17
जयाय जयभद्राय हर्यश्वाय नमो नमः ।नमो नमः सहस्रांशो आदित्याय नमो नमः ॥६-१०७-१७॥
Vālmīki 6.107.18
नम उग्राय वीराय सारङ्गाय नमो नमः ।नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥६-१०७-१८॥
Vālmīki 6.107.19
ब्रह्मोशानाच्युतेशाय सूर्यायादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥६-१०७-१९॥
Vālmīki 6.107.20
तमोघ्नाय हिमध्नाय शत्रुघ्नायामितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥६-१०७-२०॥
Vālmīki 6.107.21
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥६-१०७-२१॥
Vālmīki 6.107.22
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥६-१०७-२२॥
Vālmīki 6.107.23
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥६-१०७-२३॥
Vālmīki 6.107.24
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥६-१०७-२४॥
Vālmīki 6.107.25
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥६-१०७-२५॥
Vālmīki 6.107.26
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥६-१०७-२६॥
Vālmīki 6.107.27
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।एवमुक्त्वा तदा ऽगस्त्यो जगाम च यथागतम् ॥६-१०७-२७॥
Vālmīki 6.107.28
एतच्छुत्वा महातेजा नष्टशोको ऽभवत्तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥६-१०७-२८॥
Vālmīki 6.107.29
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥६-१०७-२९॥
Vālmīki 6.107.30
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्वयत्नेन महता वधे तस्य धृतो ऽभवत् ॥६-१०७-३०॥
Vālmīki 6.107.31
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥६-१०७-३१॥
Vālmīki 6.107.32
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तोत्तरशततमः सर्गः ।। १०७ ।। ॥६-१०७-३२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷