🪷 युद्धकाण्ड · Sarga 108
Yuddha-Kāṇḍa · The Book of War · Sarga 108 · 36 ślokas
🪷 Devanāgarī Ślokas
स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥६-१०८-१॥
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥६-१०८-२॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।रावणस्य रथं क्षिप्रं चोदयामास सारथिः ॥६-१०८-३॥
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।रथं राक्षसराजस्य नरराजो ददर्श ह ।। ६.१०८.४ ।। ।कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ॥६-१०८-४॥
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ॥६-१०८-५॥
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ॥६-१०८-६॥
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥६-१०८-७॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥६-१०८-८॥
यथा ऽ ऽपसव्यं पतता वेगेन महता पुनः ।समरे हन्तुमात्मानं तथा तेन कृता मतिः ॥६-१०८-९॥
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥६-१०८-१०॥
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ॥६-१०८-११॥
कामं न त्वं समाधेयः पुरन्दररथोचितः ।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥६-१०८-१२॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।प्रचोदयामास रथं सुरसारथिसत्तमः ॥६-१०८-१३॥
अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ॥६-१०८-१४॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।रथप्रतिमुखं रामं सायकैरवधूनयत् ॥६-१०८-१५॥
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥६-१०८-१६॥
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥६-१०८-१७॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ॥६-१०८-१८॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।रावणस्य विनाशाय राघवस्य जयाय च ॥६-१०८-१९॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥६-१०८-२०॥
महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले ।येन येन रथो याति तेन तेन प्रधावति ॥६-१०८-२१॥
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा ॥६-१०८-२२॥
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः ॥६-१०८-२३॥
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।रक्षसां च प्रहरतां गृहीता इव बाहवः ॥६-१०८-२४॥
ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः ।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥६-१०८-२५॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥६-१०८-२६॥
प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् ।तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ॥६-१०८-२७॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥६-१०८-२८॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् ॥६-१०८-२९॥
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥६-१०८-३०॥
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् ।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥६-१०८-३१॥
एवम्प्रकारा बहवः समुत्पाता भयावहाः ।रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥६-१०८-३२॥
रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥६-१०८-३३॥
निमित्तानि च सौम्यानि राघवः स्वजयाय च ।दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥६-१०८-३४॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ॥६-१०८-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः ।। १०८ ।। ॥६-१०८-३६॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 107
- Next: Yuddha-Kāṇḍa Sarga 109 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷