🪷 युद्धकाण्ड · Sarga 109

Yuddha-Kāṇḍa · The Book of War · Sarga 109 · 30 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.109.1
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ॥६-१०९-१॥
Vālmīki 6.109.2
ततो राक्षससैन्यं च हरीणां च महद्बलम् ।प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥६-१०९-२॥
Vālmīki 6.109.3
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥६-१०९-३॥
Vālmīki 6.109.4
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ॥६-१०९-४॥
Vālmīki 6.109.5
रक्षसां रावणं चापि वानराणां च राघवम् ।पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥६-१०९-५॥
Vālmīki 6.109.6
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ॥६-१०९-६॥
Vālmīki 6.109.7
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा ॥६-१०९-७॥
Vālmīki 6.109.8
ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् ।मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥६-१०९-८॥
Vālmīki 6.109.9
ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥६-१०९-९॥
Vālmīki 6.109.10
ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥६-१०९-१०॥
Vālmīki 6.109.11
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥६-१०९-११॥
Vālmīki 6.109.12
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।स निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः ॥६-१०९-१२॥
Vālmīki 6.109.13
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव ॥६-१०९-१३॥
Vālmīki 6.109.14
स रोषवशमापन्नः शरवर्षं महद्वमन् ।रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ॥६-१०९-१४॥
Vālmīki 6.109.15
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥६-१०९-१५॥
Vālmīki 6.109.16
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ॥६-१०९-१६॥
Vālmīki 6.109.17
गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥६-१०९-१७॥
Vālmīki 6.109.18
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥६-१०९-१८॥
Vālmīki 6.109.19
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।विमुच्य राघवरथं समान्ताद्वानरे बले ॥६-१०९-१९॥
Vālmīki 6.109.20
सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ॥६-१०९-२०॥
Vālmīki 6.109.21
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ॥६-१०९-२१॥
Vālmīki 6.109.22
स मुमोच ततो बाणान् रणे शतसहस्रशः ।तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥६-१०९-२२॥
Vālmīki 6.109.23
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ॥६-१०९-२३॥
Vālmīki 6.109.24
नानिमित्तो ऽभवद्बाणो नातिभेत्ता न निष्फलः ॥६-१०९-२४॥
Vālmīki 6.109.25
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ॥६-१०९-२५॥
Vālmīki 6.109.26
प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ॥६-१०९-२६॥
Vālmīki 6.109.27
रावणस्य हयान् रामो हयान् रामस्य रावणः ।जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ ॥६-१०९-२७॥
Vālmīki 6.109.28
एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥६-१०९-२८॥
Vālmīki 6.109.29
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥६-१०९-२९॥
Vālmīki 6.109.30
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ।। १०९ ।। ॥६-१०९-३०॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷