🪷 युद्धकाण्ड · Sarga 110
Yuddha-Kāṇḍa · The Book of War · Sarga 110 · 39 ślokas
🪷 Devanāgarī Ślokas
तौ तदा युद्ध्यमानौ तु समरे रामरावणौ ।ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥६-११०-१॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥६-११०-२॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ॥६-११०-३॥
अर्दयन् रावणं रामो राघवं चापि रावणः ।गतिवेगं समापन्नौ प्रवर्तननिवर्तने ॥६-११०-४॥
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।चेरतुः संयुगमहीं सासारौ जलदौ यथा ॥६-११०-५॥
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।परस्परस्याभिमुखौ पुनरेवावतस्थतुः ॥६-११०-६॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥६-११०-७॥
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ॥६-११०-८॥
स क्रोधवशमापन्नो हयानामपसर्पणे ।मुमोच निशितान् बाणान् राघवाय निशाचरः ॥६-११०-९॥
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः ।जगाम न विकारं च न चापि व्यथितो ऽभवत् ॥६-११०-१०॥
चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ।साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥६-११०-११॥
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ॥६-११०-१२॥
तया धर्षणया क्रुद्धो मातलेर्न तथा ऽ ऽत्मनः ।चकार शरजालेन राघवो विमुखं रिपुम् ॥६-११०-१३॥
विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः ।मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ॥६-११०-१४॥
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥६-११०-१५॥
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥६-११०-१६॥
गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ॥६-११०-१७॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥६-११०-१८॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥६-११०-१९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ॥६-११०-२०॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ॥६-११०-२१॥
एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा ।रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥६-११०-२२॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ॥६-११०-२३॥
गगनं गगनाकारं सागरः सागरोपमः ।रामरावणयोर्युद्धं रामरावणयोरिव ।एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥६-११०-२४॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ॥६-११०-२५॥
रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ॥६-११०-२६॥
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥६-११०-२७॥
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ॥६-११०-२८॥
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥६-११०-२९॥
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥६-११०-३०॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥६-११०-३१॥
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ॥६-११०-३२॥
यैः साला गिरयो भग्ना वाली च क्षुभितो ऽम्बुधिः ।त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।किं नु तत्कारणं येन रावणे मन्दतेजसः ॥६-११०-३३॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।ववर्ष शरवर्षाणि राघवो रावणोरसि ।। ६.११०.३४ ।।ा मम ।रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥६-११०-३४॥
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥६-११०-३५॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥६-११०-३६॥
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।रामरावणयोर्युद्धं विराममुपगच्छति ॥६-११०-३७॥
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ॥६-११०-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ।। ॥६-११०-३९॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 109
- Next: Yuddha-Kāṇḍa Sarga 111 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷