🪷 युद्धकाण्ड · Sarga 111

Yuddha-Kāṇḍa · The Book of War · Sarga 111 · 34 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.111.1
अथ संस्मारयामास राघवं मातलिस्तदा ।अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥६-१११-१॥
Vālmīki 6.111.2
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तत ॥६-१११-२॥
Vālmīki 6.111.3
ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ॥६-१११-३॥
Vālmīki 6.111.4
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥६-१११-४॥
Vālmīki 6.111.5
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥६-१११-५॥
Vālmīki 6.111.6
यस्य वाजेषु पवनः फले पावकभास्करौ ।शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥६-१११-६॥
Vālmīki 6.111.7
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥६-१११-७॥
Vālmīki 6.111.8
सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥६-१११-८॥
Vālmīki 6.111.9
द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥६-१११-९॥
Vālmīki 6.111.10
वज्रसारं महानादं नानासमितिदारणम् ।सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥६-१११-१०॥
Vālmīki 6.111.11
कङ्कगृध्रवलानां च गोमायुगणरक्षसाम् ।नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥६-१११-११॥
Vālmīki 6.111.12
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥६-१११-१२॥
Vālmīki 6.111.13
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥६-१११-१३॥
Vālmīki 6.111.14
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥६-१११-१४॥
Vālmīki 6.111.15
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे ।सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ।। ६.१११.१५ ।।स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् ।चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥६-१११-१५॥
Vālmīki 6.111.16
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥६-१११-१६॥
Vālmīki 6.111.17
स विसृष्टो महावेगः शरीरान्तकरः शरः ।बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥६-१११-१७॥
Vālmīki 6.111.18
रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।रावणस्य हरन् प्राणान् विवेश धरणीतलम् ॥६-१११-१८॥
Vālmīki 6.111.19
स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः ।कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् ॥६-१११-१९॥
Vālmīki 6.111.20
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् ।निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥६-१११-२०॥
Vālmīki 6.111.21
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥६-१११-२१॥
Vālmīki 6.111.22
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥६-१११-२२॥
Vālmīki 6.111.23
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ॥६-१११-२३॥
Vālmīki 6.111.24
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ।गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥६-१११-२४॥
Vālmīki 6.111.25
ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।वदन्तो राघवजयं रावणस्य च तद्वधम् ॥६-१११-२५॥
Vālmīki 6.111.26
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥६-१११-२६॥
Vālmīki 6.111.27
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।किरन्ती राघवरथं दुरवापा मनोरमा ॥६-१११-२७॥
Vālmīki 6.111.28
राघवस्तवसंयुक्ता गगने ऽपि च शुश्रुवे ।साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ॥६-१११-२८॥
Vālmīki 6.111.29
आविवेश महाहर्षो देवानां चारणैः सह ।रावणे निहते रौद्रे सर्वलोकभयङ्करे ॥६-१११-२९॥
Vālmīki 6.111.30
ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥६-१११-३०॥
Vālmīki 6.111.31
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभो ऽबवत् ।मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥६-१११-३१॥
Vālmīki 6.111.32
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिना ह्यपूजयन् ॥६-१११-३२॥
Vālmīki 6.111.33
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥६-१११-३३॥
Vālmīki 6.111.34
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकादशोत्तरशततमः सर्गः ।। १११ ।। ॥६-१११-३४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷