🪷 युद्धकाण्ड · Sarga 112
Yuddha-Kāṇḍa · The Book of War · Sarga 112 · 27 ślokas
🪷 Devanāgarī Ślokas
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।शोकवेगपरीतात्मा विललाप विभीषणः ॥६-११२-१॥
वीर विक्रान्त विख्यात विनीत नयकोविद ।महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि ॥६-११२-२॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥६-११२-३॥
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।काममोहपरीतस्य यत्ते न रुचितं वचः ॥६-११२-४॥
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।न कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः ।न स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः ॥६-११२-५॥
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ॥६-११२-६॥
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ॥६-११२-७॥
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥६-११२-८॥
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥६-११२-९॥
धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ॥६-११२-१०॥
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥६-११२-११॥
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥६-११२-१२॥
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः ॥६-११२-१३॥
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥६-११२-१४॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः ॥६-११२-१५॥
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥६-११२-१६॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥६-११२-१७॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥६-११२-१८॥
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ॥६-११२-१९॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥६-११२-२०॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ॥६-११२-२१॥
यो ऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥६-११२-२२॥
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ॥६-११२-२३॥
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः ।एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ॥६-११२-२४॥
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥६-११२-२५॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥६-११२-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ।। ११२ ।। ॥६-११२-२७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 111
- Next: Yuddha-Kāṇḍa Sarga 113 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷