🪷 युद्धकाण्ड · Sarga 113
Yuddha-Kāṇḍa · The Book of War · Sarga 113 · 27 ślokas
🪷 Devanāgarī Ślokas
रावणं निहतं श्रुत्वा राघवेण महात्मना ।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥६-११३-१॥
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥६-११३-२॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।प्रविश्यायो धनं घोरं विचिन्वन्त्यो हतं पतिम् ॥६-११३-३॥
राजपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥६-११३-४॥
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥६-११३-५॥
ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् ।रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥६-११३-६॥
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥६-११३-७॥
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह ।चरणौ काचिदालिङ्ग्य काचित् कण्ठे ऽवलम्ब्य च ॥६-११३-८॥
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥६-११३-९॥
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥६-११३-१०॥
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥६-११३-११॥
येन वित्रासितः शक्रो येन वित्रासितो यमः ।येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥६-११३-१२॥
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।भयं येन महद्दत्तं सो ऽयं शेते रणे हतः ॥६-११३-१३॥
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा ।न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥६-११३-१४॥
अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।हतः सो ऽयं रणे शेते मानुषेण पदातिना ॥६-११३-१५॥
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।सो ऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥६-११३-१६॥
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ॥६-११३-१७॥
अशृण्वता च सुहृदां सततं हितवादिनाम् ।मरणायाहृता सीता घातिताश्च निशाचराः ॥६-११३-१८॥
एताः सममिदानीं ते वयमात्मा च पातिताः ।ब्रुवाणो ऽपि हितं वाक्यमिष्टो भ्राता विबीषणः ।धृष्टं परुषितो मोहात्त्वया ऽ ऽत्मवधकाङ्क्षिणा ॥६-११३-१९॥
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली ।न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ॥६-११३-२०॥
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥६-११३-२१॥
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥६-११३-२२॥
न कामकारः कामं वा तव राक्षसपुङ्गव ।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥६-११३-२३॥
वानराणां विनाशो ऽयं रक्षसां च महाहवे ।तव चैव महाबाहो दैवयोगादुपागतः ॥६-११३-२४॥
नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥६-११३-२५॥
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥६-११३-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।। ॥६-११३-२७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 112
- Next: Yuddha-Kāṇḍa Sarga 114 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷