🪷 युद्धकाण्ड · Sarga 114
Yuddha-Kāṇḍa · The Book of War · Sarga 114 · 115 ślokas
🪷 Devanāgarī Ślokas
तासां विलपमानानां तथा राक्षसयोषिताम् ।ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥६-११४-१॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥६-११४-२॥
ननु नाम महाभाग तव वैश्रवणानुज ।क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥६-११४-३॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ॥६-११४-४॥
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ।स त्वं मानुषमात्रेण रामेण युधि निर्जितः ।न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ॥६-११४-५॥
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ।अविषह्यं जघान त्वां मानुषो वनगोचरः ॥६-११४-६॥
मानुषाणामविषये चरतः कामरूपिणः ।विनाशस्तव रामेण संयुगे नोपपद्यते ॥६-११४-७॥
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे ।सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥६-११४-८॥
यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः ।खरस्तव हतो भ्राता तदेवासौ न मानुषः ॥६-११४-९॥
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ।प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम् ॥६-११४-१०॥
यदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे ।तदैव हृदयेनाहं शङ्के रामममानुषम् ॥६-११४-११॥
अथवा रामरूपेण कृतान्तः स्वयमागतः ।मायां तव विनाशाय विधायाप्रतितर्किताम् ॥६-११४-१२॥
अथवा वासवेन त्वं धर्षितो ऽसि महाबल ।वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥६-११४-१३॥
व्यक्तमेष महायोगी परमात्मा सनातनः ।अनादिमध्यनिधनो महतः परमो महान् ॥६-११४-१४॥
तमसः परमो धाता शङ्खचक्रगदाधरः ।श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥६-११४-१५॥
मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ।सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥६-११४-१६॥
सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया ।सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥६-११४-१७॥
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥६-११४-१८॥
क्रियतामविरोधश्च राघवेणेति यन्मया ।उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥६-११४-१९॥
अकस्माच्चाभिकामो ऽसि सीतां राक्षसपुङ्गव ।ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥६-११४-२०॥
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ।सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥६-११४-२१॥
वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम् ।सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥६-११४-२२॥
आनयित्वा तु तां दीनां छद्मना ऽ ऽत्मस्वदूषण ।अप्राप्य चैव तं कामं मैथिलीसङ्कमे कृतम् ।पतिव्रतायास्तपसा नूनं दग्धो ऽसि मे प्रभो ॥६-११४-२३॥
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ।देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥६-११४-२४॥
अवश्यमेव लभते फलं पापस्य कर्मणः ।घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥६-११४-२५॥
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते ।विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥६-११४-२६॥
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः ।अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥६-११४-२७॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।मया ऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥६-११४-२८॥
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः ।तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥६-११४-२९॥
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥६-११४-३०॥
मैथिली सह रामेण विशोका विहरिष्यति ।अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥६-११४-३१॥
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ।देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥६-११४-३२॥
विमानेनानुरूपेण या याम्यतुलया श्रिया ।पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा ।भ्रंशिता कामभोगेभ्यः सा ऽस्मि वीर वधात्तव ॥६-११४-३३॥
सैवान्येवास्मि संवृत्ता धिग् राज्ञां चञ्चलाः श्रियः ।। ६.११४.३४ ।।तांस्तांश्चित्रस्रगम्बरा ।हा राजन् सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम् ।कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥६-११४-३४॥
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ।मदव्याकुललोलाक्षं भूत्वा यत् पानभूमिषु ॥६-११४-३५॥
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ।तदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो ॥६-११४-३६॥
रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः ।विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥६-११४-३७॥
हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी ।या मया ऽ ऽसीन्न सम्बुद्धा कदाचिदपि मन्दया ॥६-११४-३८॥
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ।पुत्रो मे शक्तनिर्जेता इत्येवं गर्विता भृशम् ॥६-११४-३९॥
दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः ।अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्द्दढा ॥६-११४-४०॥
तेषामेवंप्रभावानां युष्माकं राक्षसर्षभ ।कथं भयमसम्बुद्धं मानुषादिदमागतम् ॥६-११४-४१॥
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ।केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥६-११४-४२॥
कान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु ।भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥६-११४-४३॥
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम् ।पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते ॥६-११४-४४॥
श्वाविधः शललैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् ।स्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम् ।क्षितौ निपतितं राजन् श्यावं रुधिरसच्छवि ॥६-११४-४५॥
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः ।। ६.११४.४७ ।।्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम् ।हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ।त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥६-११४-४६॥
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ।जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ॥६-११४-४७॥
दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम् ।लोकक्षोभयितारं च नादैर्भूतविराविणम् ॥६-११४-४८॥
ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ ।स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥६-११४-४९॥
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ।निवातकवचानां च सङ्ग्रहीतारमीश्वरम् ॥६-११४-५०॥
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ।धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥६-११४-५१॥
देवासुरनृकन्यानामाहर्तारं ततस्ततः ।शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥६-११४-५२॥
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ।अस्माकं कामभोगानां दातारं रथिनां वरम् ॥६-११४-५३॥
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ।स्थिरा ऽस्मि या देहमिमं धारयामि हतप्रिया ॥६-११४-५४॥
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ।इह कस्मात् प्रसुप्तो ऽसि धरण्यां रेणुपाटलः ॥६-११४-५५॥
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि ।तदा ऽस्म्यभिहता तीव्रमद्य त्वस्मिन्निपातिता ॥६-११४-५६॥
नाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया ।विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ॥६-११४-५७॥
प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम् ।नय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥६-११४-५८॥
कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि ।दीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥६-११४-५९॥
दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम् ।निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो ॥६-११४-६०॥
पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान् ।बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि ॥६-११४-६१॥
अयं क्रीडासहायस्ते नाथ लालप्यते जनः ।न चैनमाश्वासयसे किं वा न बहुमन्यसे ॥६-११४-६२॥
यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः ।पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः ।ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥६-११४-६३॥
त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥६-११४-६४॥
प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप ।पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले ॥६-११४-६५॥
कथं च नाम ते राजन् लोकानाक्रम्य तेजसा ।नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥६-११४-६६॥
अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया ।आनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥६-११४-६७॥
कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम् ।तत्तुभाग्यविपर्यासान्नूनं ते पक्वलक्षणम् ॥६-११४-६८॥
अतीतानागतार्थज्ञो वर्तमानविचक्षणः ।मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥६-११४-६९॥
सत्यवाक् स महाभागो देवरो मे यदब्रवीत् ।सो ऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ।कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥६-११४-७०॥
निर्वृत्तस्त्वत्कृते ऽनर्थः सो ऽयं मूलहरो महान् ।त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥६-११४-७१॥
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ।स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥६-११४-७२॥
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ।आत्मानमनुशोचामि त्वद्वियोगेन दुःखिता ॥६-११४-७३॥
सुहृदां हितकामानां न श्रुतं वचनं त्वया ।भ्रातऽणां चापि कार्त्स्न्येन हितमुक्तं त्वया ऽनघ ॥६-११४-७४॥
हेत्वर्थयुक्तं विधिवत् श्रेयस्करमदारुणम् ।विभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥६-११४-७५॥
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा ।न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥६-११४-७६॥
नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद ॥६-११४-७७॥
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः ।प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥६-११४-७८॥
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ।यातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥६-११४-७९॥
उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।अद्य वै निर्भयां लङ्कां प्रविष्टाः सूर्यरश्मयः ॥६-११४-८०॥
येन सूदयसे शत्रून् समरे सूर्यवर्चसा ।वज्रो वज्रधरस्येव सो ऽयं ते सततार्चितः ॥६-११४-८१॥
रणे शत्रुप्रहरणो हमजालपरिष्कृतः ।परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥६-११४-८२॥
प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् ।अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥६-११४-८३॥
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ।त्वयि मञ्चत्वमापन्ने फलते शोकपीडितम् ॥६-११४-८४॥
इत्येवं विलपन्त्येव बाष्पव्याकुललोचना ।स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥६-११४-८५॥
कश्मलाभिहता सन्ना बभौ सा रावणोरसि ।सन्ध्या ऽनुरक्ते जलदे दीप्ता विद्युदिवासिते ॥६-११४-८६॥
तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः ।पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥६-११४-८७॥
न ते सुविदिता देवि लोकानां स्थितिरध्रुवा ।दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥६-११४-८८॥
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ।स्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥६-११४-८९॥
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ।संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥६-११४-९०॥
तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ।रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥६-११४-९१॥
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ।नाहमर्हो ऽस्मि संस्कर्तुं परदाराभिमर्शिनम् ॥६-११४-९२॥
भ्रातृरूपो हि मे शत्रुरेषसर्वाहिते रतः ।रावणो नार्हते पूजां पूज्यो ऽपि गुरुगौरवात् ॥६-११४-९३॥
नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि ।श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ॥६-११४-९४॥
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ।विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥६-११४-९५॥
तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् ।अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥६-११४-९६॥
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ।तेजस्वी बलवान् शूरो संयुगेषु च नित्यशः ॥६-११४-९७॥
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ।महात्मा बलसम्पन्नो रावणो लोकरावणः ॥६-११४-९८॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥६-११४-९९॥
त्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम् ।प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि ॥६-११४-१००॥
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।संस्कारेणानुरूपेण योजयामास रावणम् ॥६-११४-१०१॥
चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् ।ब्राह्म्या संवेशयाञ्चक्रू राङ्कवास्तरणावृताम् ॥६-११४-१०२॥
वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः ।प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ॥६-११४-१०३॥
वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम् ।पृषदाज्येन सम्पूर्णं स्रुवं सर्वे प्रचिक्षिपुः ॥६-११४-१०४॥
पादयोः शकटं प्रादुरन्तरूर्वोरुलूखलम् ।दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ।दत्त्वा तु मुसलं चान्यद्यथा स्थानं विचक्षणाः ॥६-११४-१०५॥
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥६-११४-१०६॥
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥६-११४-१०७॥
गन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः ।विभीषणसहायास्ते वस्त्रैश्च विविधैरपि ॥६-११४-१०८॥
लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥६-११४-१०९॥
ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥६-११४-११०॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दूर्वाभिमिश्रितान् ।उदकेन च संमिश्रान् प्रदाय विधिपूर्वकम् ॥६-११४-१११॥
प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ।ताः स्त्रियो ऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ॥६-११४-११२॥
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ।प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।रामपार्श्वमुपागम्य तदा ऽतिष्ठद्विनीतवत् ॥६-११४-११३॥
रामो ऽपि सह सैन्येन समुग्रीवः सलक्ष्मणः ।हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥६-११४-११४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ।। ११४ ।। ॥६-११४-११५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 113
- Next: Yuddha-Kāṇḍa Sarga 115 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷