🪷 युद्धकाण्ड · Sarga 115

Yuddha-Kāṇḍa · The Book of War · Sarga 115 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.115.1
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥६-११५-१॥
Vālmīki 6.115.2
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥६-११५-२॥
Vālmīki 6.115.3
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥६-११५-३॥
Vālmīki 6.115.4
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥६-११५-४॥
Vālmīki 6.115.5
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥६-११५-५॥
Vālmīki 6.115.6
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥६-११५-६॥
Vālmīki 6.115.7
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥६-११५-७॥
Vālmīki 6.115.8
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ॥६-११५-८॥
Vālmīki 6.115.9
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥६-११५-९॥
Vālmīki 6.115.10
एष मे परमः कामो यदीमं रावणानुजम् ।लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् ॥६-११५-१०॥
Vālmīki 6.115.11
एवमुक्तस्तु सौमित्री राघवेण महात्मना ।तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥६-११५-११॥
Vālmīki 6.115.12
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।आदिदेश महासत्त्वान् समुद्रसलिलानये ॥६-११५-१२॥
Vālmīki 6.115.13
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥६-११५-१३॥
Vālmīki 6.115.14
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥६-११५-१४॥
Vālmīki 6.115.15
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ॥६-११५-१५॥
Vālmīki 6.115.16
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ।दृष्ट्वा ऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ॥६-११५-१६॥
Vālmīki 6.115.17
स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः ।प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ॥६-११५-१७॥
Vālmīki 6.115.18
अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा ।आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥६-११५-१८॥
Vālmīki 6.115.19
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥६-११५-१९॥
Vālmīki 6.115.20
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया ॥६-११५-२०॥
Vālmīki 6.115.21
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ॥६-११५-२१॥
Vālmīki 6.115.22
अनुमान्यं महाराजमिमं सौम्य विभीषणम् ॥६-११५-२२॥
Vālmīki 6.115.23
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥६-११५-२३॥
Vālmīki 6.115.24
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ॥६-११५-२४॥
Vālmīki 6.115.25
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥६-११५-२५॥
Vālmīki 6.115.26
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।। ॥६-११५-२६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷