🪷 युद्धकाण्ड · Sarga 116
Yuddha-Kāṇḍa · The Book of War · Sarga 116 · 52 ślokas
🪷 Devanāgarī Ślokas
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥६-११६-१॥
प्रविश्य च महातेजा रावणस्य निवेशनम् ।ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ।वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥६-११६-२॥
निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च ॥६-११६-३॥
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ।तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिता ऽभवत् ॥६-११६-४॥
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः ।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥६-११६-५॥
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।विभीषणसहायश्च हरीणां सहितो बलैः ॥६-११६-६॥
कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः ॥६-११६-७॥
विभीषणसहायेन रामेण हरिभिः सह ।निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥६-११६-८॥
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ॥६-११६-९॥
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥६-११६-१०॥
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥६-११६-११॥
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥६-११६-१२॥
सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥६-११६-१३॥
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥६-११६-१४॥
एवमुक्ता समुत्पत्य सीता शशिनिभानना ।प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ॥६-११६-१५॥
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ॥६-११६-१६॥
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ॥६-११६-१७॥
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।प्रहर्षवशमापन्ना निर्वाक्या ऽस्मि क्षणान्तरम् ॥६-११६-१८॥
न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ॥६-११६-१९॥
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ॥६-११६-२०॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥६-११६-२१॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥६-११६-२२॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥६-११६-२३॥
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥६-११६-२४॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥६-११६-२५॥
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥६-११६-२६॥
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ।बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥६-११६-२७॥
श्लाघनीयो ऽनिलस्य त्वं पुत्रः परमधार्मिकः ।बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥६-११६-२८॥
तेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः ।एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥६-११६-२९॥
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥६-११६-३०॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥६-११६-३१॥
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ॥६-११६-३२॥
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ।राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ।। ६.११६.३३ ।।मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने ।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥६-११६-३३॥
घातैर्जानुप्रहारैश्च दशनानां च पातनैः ।भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥६-११६-३४॥
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः ।निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥६-११६-३५॥
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥६-११६-३६॥
एवमुक्ता हनुमता वैदेही जनकात्मजा ।उवाच धर्मसहितं हनुमन्तं यशस्विनी ॥६-११६-३७॥
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥६-११६-३८॥
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च ।मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥६-११६-३९॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥६-११६-४०॥
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥६-११६-४१॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः ।ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥६-११६-४२॥
न परः पापमादत्ते परेषां पापकर्मणाम् ।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥६-११६-४३॥
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥६-११६-४४॥
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ।कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥६-११६-४५॥
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥६-११६-४६॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥६-११६-४७॥
एवमुक्ता हनुमता वैदेही जनकात्मजा ।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥६-११६-४८॥
तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः ।हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥६-११६-४९॥
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥६-११६-५०॥
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।आजगाम महावेगो हनुमान् यत्र राघवः ॥६-११६-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षोडशोत्तरशततमः सर्गः ।। ११६ ।। ॥६-११६-५२॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 115
- Next: Yuddha-Kāṇḍa Sarga 117 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷