🪷 युद्धकाण्ड · Sarga 117
Yuddha-Kāṇḍa · The Book of War · Sarga 117 · 37 ślokas
🪷 Devanāgarī Ślokas
स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥६-११७-१॥
यन्निमित्तो ऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ॥६-११७-२॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥६-११७-३॥
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥६-११७-४॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ॥६-११७-५॥
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसङ्काशं विभीषणमुपस्थितम् ॥६-११७-६॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ॥६-११७-७॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥६-११७-८॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥६-११७-९॥
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥६-११७-१०॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥६-११७-११॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥६-११७-१२॥
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम् ।महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥६-११७-१३॥
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥६-११७-१४॥
सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ॥६-११७-१५॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥६-११७-१६॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् ॥६-११७-१७॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ॥६-११७-१८॥
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥६-११७-१९॥
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ॥६-११७-२०॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ॥६-११७-२१॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥६-११७-२२॥
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥६-११७-२३॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥६-११७-२४॥
किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम ॥६-११७-२५॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥६-११७-२६॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥६-११७-२७॥
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।दर्शने ऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥६-११७-२८॥
तदानय समीपं मे शीघ्रमेनां विभीषण ।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥६-११७-२९॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ॥६-११७-३०॥
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥६-११७-३१॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥६-११७-३२॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत ॥६-११७-३३॥
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥६-११७-३४॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ॥६-११७-३५॥
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ॥६-११७-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ।। ११७ ।। ॥६-११७-३७॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 116
- Next: Yuddha-Kāṇḍa Sarga 118 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷