🪷 युद्धकाण्ड · Sarga 117
Yuddha-Kāṇḍa · The Book of War · Sarga 117 · 37 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 6.117local sarga route with all Sanskrit ślokasYuddha-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ।। ६.११७.१ ।।
यन्निमित्तो ऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ।। ६.११७.२ ।।
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ।। ६.११७.३ ।।
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ।। ६.११७.४ ।।
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ।। ६.११७.५ ।।
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसङ्काशं विभीषणमुपस्थितम् ।। ६.११७.६ ।।
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ।। ६.११७.७ ।।
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ।। ६.११७.८ ।।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ।। ६.११७.९ ।।
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ।। ६.११७.१० ।।
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ।। ६.११७.११ ।।
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ।। ६.११७.१२ ।।
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम् ।महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ।। ६.११७.१३ ।।
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ।। ६.११७.१४ ।।
सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ।। ६.११७.१५ ।।
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। ६.११७.१६ ।।
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् ।। ६.११७.१७ ।।
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ।। ६.११७.१८ ।।
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ।। ६.११७.१९ ।।
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ।। ६.११७.२० ।।
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ।। ६.११७.२१ ।।
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ।। ६.११७.२२ ।।
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ।। ६.११७.२३ ।।
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ।। ६.११७.२४ ।।
किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम ।। ६.११७.२५ ।।
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ।। ६.११७.२६ ।।
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ।। ६.११७.२७ ।।
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।दर्शने ऽस्या न दोषः स्यान्मत्समीपे विशेषतः ।। ६.११७.२८ ।।
तदानय समीपं मे शीघ्रमेनां विभीषण ।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ।। ६.११७.२९ ।।
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ।। ६.११७.३० ।।
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ।। ६.११७.३१ ।।
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ।। ६.११७.३२ ।।
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत ।। ६.११७.३३ ।।
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ।। ६.११७.३४ ।।
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ।। ६.११७.३५ ।।
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ।। ६.११७.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ।। ११७ ।।
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 116
- Next: Yuddha-Kāṇḍa Sarga 118 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷