🪷 युद्धकाण्ड · Sarga 118

Yuddha-Kāṇḍa · The Book of War · Sarga 118 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.118.1
तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् ।हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥६-११८-१॥
Vālmīki 6.118.2
एषा ऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥६-११८-२॥
Vālmīki 6.118.3
गतो ऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता ।अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥६-११८-३॥
Vālmīki 6.118.4
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥६-११८-४॥
Vālmīki 6.118.5
या त्वं विरहिता नीता चलचित्तेन रक्षसा ।दैवसम्पादितो दोषो मानुषेण मया जितः ॥६-११८-५॥
Vālmīki 6.118.6
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।कस्तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः ॥६-११८-६॥
Vālmīki 6.118.7
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।सफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः ॥६-११८-७॥
Vālmīki 6.118.8
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः ॥६-११८-८॥
Vālmīki 6.118.9
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः ॥६-११८-९॥
Vālmīki 6.118.10
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥६-११८-१०॥
Vālmīki 6.118.11
पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ।प्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः ॥६-११८-११॥
Vālmīki 6.118.12
स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥६-११८-१२॥
Vālmīki 6.118.13
यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥६-११८-१३॥
Vālmīki 6.118.14
निर्जिता जीवलोकस्य तपसा भावितात्मना ।अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥६-११८-१४॥
Vālmīki 6.118.15
विदितश्चास्तु ते भद्रे यो ऽयं रणपरिश्रमः ।स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥६-११८-१५॥
Vālmīki 6.118.16
रक्षता तु मया वृत्तमपावदं च सर्वशः ।प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥६-११८-१६॥
Vālmīki 6.118.17
प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता ।दीपो नेत्रातुरस्येव प्रतिकूला ऽसि मे दृढम् ॥६-११८-१७॥
Vālmīki 6.118.18
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥६-११८-१८॥
Vālmīki 6.118.19
कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् ।तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥६-११८-१९॥
Vālmīki 6.118.20
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ॥६-११८-२०॥
Vālmīki 6.118.21
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥६-११८-२१॥
Vālmīki 6.118.22
इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना ।लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥६-११८-२२॥
Vālmīki 6.118.23
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।निवेशय मनः सीते यथा वा सुखमात्मनः ॥६-११८-२३॥
Vālmīki 6.118.24
न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥६-११८-२४॥
Vālmīki 6.118.25
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥६-११८-२५॥
Vālmīki 6.118.26
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ।। ११८ ।। ॥६-११८-२६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷