🪷 युद्धकाण्ड · Sarga 119
Yuddha-Kāṇḍa · The Book of War · Sarga 119 · 35 ślokas
🪷 Devanāgarī Ślokas
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् ॥६-११९-१॥
सा तदश्रुतपूर्वं हि जने महति मैथिली ।श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् ॥६-११९-२॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥६-११९-३॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥६-११९-४॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥६-११९-५॥
न तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि ।प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥६-११९-६॥
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता ॥६-११९-७॥
यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो ।कामकारो न मे तत्र दैवं तत्रापराध्यति ॥६-११९-८॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥६-११९-९॥
सहसंवृद्धभावाच्च संसर्गेण च मानद ।यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥६-११९-१०॥
प्रेषितस्ते यदा वीरो हनुमानवलोककः ।लङ्कास्था ऽहं त्वया वीर किं तदा न विसर्जिता ॥६-११९-११॥
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥६-११९-१२॥
न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् ।सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥६-११९-१३॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥६-११९-१४॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥६-११९-१५॥
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥६-११९-१६॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥६-११९-१७॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥६-११९-१८॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥६-११९-१९॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।अमर्षवशमापन्नो राघवाननमैक्षत ॥६-११९-२०॥
स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥६-११९-२१॥
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥६-११९-२२॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥६-११९-२३॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥६-११९-२४॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥६-११९-२५॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥६-११९-२६॥
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च ।अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ।यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् ॥६-११९-२७॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ॥६-११९-२८॥
जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ।ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥६-११९-२९॥
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥६-११९-३०॥
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ॥६-११९-३१॥
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ॥६-११९-३२॥
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ॥६-११९-३३॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥६-११९-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।। ॥६-११९-३५॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 118
- Next: Yuddha-Kāṇḍa Sarga 120 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷