🪷 युद्धकाण्ड · Sarga 120

Yuddha-Kāṇḍa · The Book of War · Sarga 120 · 35 ślokas

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
Vālmīki Yuddha-Kāṇḍa 6.120.16 · the Brahma-Stuti: Brahmā addresses Rāma after Rāvaṇa-vadha · names Him as Viṣṇu AND Krishna by name · the Ādi-Kavi's own declaration of the non-dual. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

🪷 Devanāgarī Ślokas

Vālmīki 6.120.1
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥६-१२०-१॥
Vālmīki 6.120.2
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥६-१२०-२॥
Vālmīki 6.120.3
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥६-१२०-३॥
Vālmīki 6.120.4
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥६-१२०-४॥
Vālmīki 6.120.5
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ॥६-१२०-५॥
Vālmīki 6.120.6
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥६-१२०-६॥
Vālmīki 6.120.7
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ॥६-१२०-७॥
Vālmīki 6.120.8
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः ।रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ॥६-१२०-८॥
Vālmīki 6.120.9
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥६-१२०-९॥
Vālmīki 6.120.10
उपेक्षसे च वैदेहीं मानुषः पाकृतो यथा ॥६-१२०-१०॥
Vālmīki 6.120.11
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ॥६-१२०-११॥
Vālmīki 6.120.12
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।यो ऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे ॥६-१२०-१२॥
Vālmīki 6.120.13
इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥६-१२०-१३॥
Vālmīki 6.120.14
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥६-१२०-१४॥
Vālmīki 6.120.15
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥६-१२०-१५॥
Vālmīki 6.120.16
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ॥६-१२०-१६॥
Vālmīki 6.120.17
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥६-१२०-१७॥
Vālmīki 6.120.18
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥६-१२०-१८॥
Vālmīki 6.120.19
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥६-१२०-१९॥
Vālmīki 6.120.20
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥६-१२०-२०॥
Vālmīki 6.120.21
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।प्रभवं निधनं वा ते न विदुः को भवानिति ॥६-१२०-२१॥
Vālmīki 6.120.22
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥६-१२०-२२॥
Vālmīki 6.120.23
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥६-१२०-२३॥
Vālmīki 6.120.24
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ॥६-१२०-२४॥
Vālmīki 6.120.25
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥६-१२०-२५॥
Vālmīki 6.120.26
निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।संस्कारास्ते ऽभवन् वेदा न तदस्ति त्वया विना ॥६-१२०-२६॥
Vālmīki 6.120.27
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥६-१२०-२७॥
Vālmīki 6.120.28
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥६-१२०-२८॥
Vālmīki 6.120.29
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥६-१२०-२९॥
Vālmīki 6.120.30
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥६-१२०-३०॥
Vālmīki 6.120.31
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।अमोघं दर्शनं राम न च मोघः स्तवस्तव ॥६-१२०-३१॥
Vālmīki 6.120.32
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ॥६-१२०-३२॥
Vālmīki 6.120.33
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।प्राप्नुवन्ति सदा कामानिह लोके परत्र च ॥६-१२०-३३॥
Vālmīki 6.120.34
इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥६-१२०-३४॥
Vālmīki 6.120.35
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशत्युत्तरशततमः सर्गः ।। १२० ।। ॥६-१२०-३५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷