🪷 युद्धकाण्ड · Sarga 121

Yuddha-Kāṇḍa · The Book of War · Sarga 121 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.121.1
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ।अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥६-१२१-१॥
Vālmīki 6.121.2
स विधूय चितां तां तु वैदेहीं हव्यवाहनः ।उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥६-१२१-२॥
Vālmīki 6.121.3
तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम् ।रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥६-१२१-३॥
Vālmīki 6.121.4
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् ।ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥६-१२१-४॥
Vālmīki 6.121.5
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ॥६-१२१-५॥
Vālmīki 6.121.6
एषा ते राम वैदेही पापमस्यां न विद्यते ॥६-१२१-६॥
Vālmīki 6.121.7
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ।सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ॥६-१२१-७॥
Vālmīki 6.121.8
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ।त्वया विरहिता दीना विवशा निर्जनाद्वनात् ॥६-१२१-८॥
Vālmīki 6.121.9
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा ।रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ॥६-१२१-९॥
Vālmīki 6.121.10
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली ।नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥६-१२१-१०॥
Vālmīki 6.121.11
विशुद्धभावां निष्पापां पतिगृह्णीष्व राघव ।न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ॥६-१२१-११॥
Vālmīki 6.121.12
ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥६-१२१-१२॥
Vālmīki 6.121.13
एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः ।अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥६-१२१-१३॥
Vālmīki 6.121.14
अवश्यं त्रिषु लोकेषु न सीता पापमर्हति ।दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ॥६-१२१-१४॥
Vālmīki 6.121.15
बालिशः खलु कामात्मा रामो दशरथात्मजः ।इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥६-१२१-१५॥
Vālmīki 6.121.16
अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् ।अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ॥६-१२१-१६॥
Vālmīki 6.121.17
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ।उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥६-१२१-१७॥
Vālmīki 6.121.18
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।रावणो नातिवर्तेत वेलामिव महोदधिः ॥६-१२१-१८॥
Vālmīki 6.121.19
न हि शक्तः स दुष्टात्मा मनसा ऽपि हि मैथिलीम् ।प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ॥६-१२१-१९॥
Vālmīki 6.121.20
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ।अनन्या हि मया सीता भास्करेण प्रभा यथा ॥६-१२१-२०॥
Vālmīki 6.121.21
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।न हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥६-१२१-२१॥
Vālmīki 6.121.22
अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम् ।स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ॥६-१२१-२२॥
Vālmīki 6.121.23
इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामः प्रियया महाबलः सुखं सुखार्हो ऽनुबभूव राघवः ॥६-१२१-२३॥
Vālmīki 6.121.24
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः ।। १२१ ।। ॥६-१२१-२४॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷