🪷 युद्धकाण्ड · Sarga 122
Yuddha-Kāṇḍa · The Book of War · Sarga 122 · 38 ślokas
🪷 Devanāgarī Ślokas
एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥६-१२२-१॥
पुष्कराक्ष महाबाहो महावक्षः परन्तप ।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥६-१२२-२॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ॥६-१२२-३॥
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥६-१२२-४॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥६-१२२-५॥
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥६-१२२-६॥
एष राजा विमानस्थः पिता दशरथस्तव ।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥६-१२२-७॥
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥६-१२२-८॥
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥६-१२२-९॥
दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम् ।लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ॥६-१२२-१०॥
हर्षेण महता ऽ ऽविष्टो विमानस्थो महीपतिः ।प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥६-१२२-११॥
आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥६-१२२-१२॥
न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः ।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥६-१२२-१३॥
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् ।निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ॥६-१२२-१४॥
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।तव प्रवाजनार्थानि स्थितानि हृदये मम ॥६-१२२-१५॥
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।अद्य दुःखाद्विमुक्तो ऽस्मि नीहारादिव भास्करः ॥६-१२२-१६॥
तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना ।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥६-१२२-१७॥
इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।वधार्थं रावणस्येदं विहितं पुरुषोत्तम ॥६-१२२-१८॥
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥६-१२२-१९॥
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥६-१२२-२०॥
अनुरक्तेन बलिना शुचिना धर्मचारिणा ।इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ॥६-१२२-२१॥
चतुर्दश समाः सौम्य वने निर्यापितास्त्वया ।वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥६-१२२-२२॥
निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता ।रावणं च रणे हत्वा देवास्ते परितोषिताः ॥६-१२२-२३॥
कृतं कर्म यशः श्लाध्यं प्राप्तं ते शत्रुसूदन ।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ।इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ॥६-१२२-२४॥
कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ॥६-१२२-२५॥
स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥६-१२२-२६॥
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥६-१२२-२७॥
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥६-१२२-२८॥
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥६-१२२-२९॥
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥६-१२२-३०॥
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥६-१२२-३१॥
एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ॥६-१२२-३२॥
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥६-१२२-३३॥
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥६-१२२-३४॥
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।रामेम त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥६-१२२-३५॥
न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति ।अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥६-१२२-३६॥
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥६-१२२-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः ।। १२२ ।। ॥६-१२२-३८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 121
- Next: Yuddha-Kāṇḍa Sarga 123 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷