🪷 युद्धकाण्ड · Sarga 123

Yuddha-Kāṇḍa · The Book of War · Sarga 123 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.123.1
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥६-१२३-१॥
Vālmīki 6.123.2
अमोघं दर्शनं राम तवास्माकं परन्तप ।प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥६-१२३-२॥
Vālmīki 6.123.3
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥६-१२३-३॥
Vālmīki 6.123.4
यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर ।वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥६-१२३-४॥
Vālmīki 6.123.5
मम हेतोः पराक्रान्ता ये गता यमसादनम् ।ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥६-१२३-५॥
Vālmīki 6.123.6
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥६-१२३-६॥
Vālmīki 6.123.7
त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ॥६-१२३-७॥
Vālmīki 6.123.8
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ॥६-१२३-८॥
Vālmīki 6.123.9
अकाले चापि मुख्यानि मूलानि च फलानि च ।नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥६-१२३-९॥
Vālmīki 6.123.10
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥६-१२३-१०॥
Vālmīki 6.123.11
महानयं वरस्तात त्वयोक्तो रघुनन्दन ।द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ॥६-१२३-११॥
Vālmīki 6.123.12
समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ।नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ॥६-१२३-१२॥
Vālmīki 6.123.13
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ।सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥६-१२३-१३॥
Vālmīki 6.123.14
अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥६-१२३-१४॥
Vālmīki 6.123.15
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ।। ६.१२३.१५ ।।्च सलिलायुताः ॥६-१२३-१५॥
Vālmīki 6.123.16
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥६-१२३-१६॥
Vālmīki 6.123.17
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥६-१२३-१७॥
Vālmīki 6.123.18
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ॥६-१२३-१८॥
Vālmīki 6.123.19
गच्छायोध्यामितो वीर विसर्जय च वानरान् ॥६-१२३-१९॥
Vālmīki 6.123.20
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ।शत्रुघ्नं च महात्मानं मातऽः सर्वाः परन्तप ॥६-१२३-२०॥
Vālmīki 6.123.21
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ॥६-१२३-२१॥
Vālmīki 6.123.22
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ॥६-१२३-२२॥
Vālmīki 6.123.23
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥६-१२३-२३॥
Vālmīki 6.123.24
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ।श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ॥६-१२३-२४॥
Vālmīki 6.123.25
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ।। १२३ ।। ॥६-१२३-२५॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷