🪷 युद्धकाण्ड · Sarga 124
Yuddha-Kāṇḍa · The Book of War · Sarga 124 · 28 ślokas
🪷 Devanāgarī Ślokas
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥६-१२४-१॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।चन्दनानि च दिव्यानि माल्यानि विविधानि च ॥६-१२४-२॥
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ।प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ॥६-१२४-३॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ।। ६.१२४.४ ।।ां विधिवत् स्नापयिष्यन्ति राघव ।हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।। ६.१२४.५ ।।िधिवत् स्नापयिष्यन्ति राघव ।स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥६-१२४-४॥
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥६-१२४-५॥
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥६-१२४-६॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥६-१२४-७॥
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥६-१२४-८॥
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥६-१२४-९॥
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।तदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥६-१२४-१०॥
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥६-१२४-११॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥६-१२४-१२॥
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥६-१२४-१३॥
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥६-१२४-१४॥
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।प्रणयाद्वहुमानाच्च सौहृदेन च राघव ।प्रसादयामि प्रेष्यो ऽहं न खल्वाज्ञापयामि ते ॥६-१२४-१५॥
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ।रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥६-१२४-१६॥
पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप ।सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥६-१२४-१७॥
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः ॥६-१२४-१८॥
शिरसा याचतो यस्य वचनं न कृतं मया ।। ६.१२४.२१ ।।तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥६-१२४-१९॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥६-१२४-२०॥
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण ।मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये ॥६-१२४-२१॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।तं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥६-१२४-२२॥
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥६-१२४-२३॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥६-१२४-२४॥
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥६-१२४-२५॥
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ॥६-१२४-२६॥
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।महार्हास्तरणो पेतैरुपपन्नं महाधनैः ।। ६.१२४.३० ।।उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥६-१२४-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ।। १२४ ।। ॥६-१२४-२८॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 123
- Next: Yuddha-Kāṇḍa Sarga 125 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷