🪷 युद्धकाण्ड · Sarga 125
Yuddha-Kāṇḍa · The Book of War · Sarga 125 · 30 ślokas
🪷 Devanāgarī Ślokas
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥६-१२५-१॥
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥६-१२५-२॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥६-१२५-३॥
कृतप्रयत्नकर्माणो विभीषण वनौकसः ।रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥६-१२५-४॥
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ॥६-१२५-५॥
त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ॥६-१२५-६॥
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥६-१२५-७॥
एव सम्मानिताश्चैते मानार्हा मानद त्वया ।भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥६-१२५-८॥
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ॥६-१२५-९॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥६-१२५-१०॥
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥६-१२५-११॥
ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥६-१२५-१२॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥६-१२५-१३॥
अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥६-१२५-१४॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥६-१२५-१५॥
यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा ॥६-१२५-१६॥
विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥६-१२५-१७॥
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥६-१२५-१८॥
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ॥६-१२५-१९॥
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ॥६-१२५-२०॥
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।उद्युक्ता विचरिष्यामो वनानि नगराणि च ॥६-१२५-२१॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ॥६-१२५-२२॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ॥६-१२५-२३॥
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥६-१२५-२४॥
क्षिप्रमारोह सुग्रीव विमानं वानरै सह ।त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥६-१२५-२५॥
ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ॥६-१२५-२६॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥६-१२५-२७॥
ययौ तेन विमानेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥६-१२५-२८॥
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥६-१२५-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ।। १२५ ।। ॥६-१२५-३०॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 124
- Next: Yuddha-Kāṇḍa Sarga 126 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷