🪷 युद्धकाण्ड · Sarga 126

Yuddha-Kāṇḍa · The Book of War · Sarga 126 · 52 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.126.1
अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् ।उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥६-१२६-१॥
Vālmīki 6.126.2
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥६-१२६-२॥
Vālmīki 6.126.3
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥६-१२६-३॥
Vālmīki 6.126.4
एतदायोधनं पश्य मांसशोणितकर्दमम् ।हरीणां राक्षसानां च सीते विशसनं महत् ॥६-१२६-४॥
Vālmīki 6.126.5
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।तव हेतोर्विशालाक्षि रावणो निहतो मया ।। ६.१२६.५ ।।कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः ।धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥६-१२६-५॥
Vālmīki 6.126.6
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ॥६-१२६-६॥
Vālmīki 6.126.7
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।अङ्गदेनात्र निहतो विकटो नाम राक्षसः ॥६-१२६-७॥
Vālmīki 6.126.8
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।अकम्पनश्च निहतो बलिनो ऽन्ये च राक्षसाः ॥६-१२६-८॥
Vālmīki 6.126.9
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥६-१२६-९॥
Vālmīki 6.126.10
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥६-१२६-१०॥
Vālmīki 6.126.11
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥६-१२६-११॥
Vālmīki 6.126.12
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥६-१२६-१२॥
Vālmīki 6.126.13
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥६-१२६-१३॥
Vālmīki 6.126.14
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥६-१२६-१४॥
Vālmīki 6.126.15
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।एतत् पवित्रं परमं महापातकनाशनम् ॥६-१२६-१५॥
Vālmīki 6.126.16
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ।। ६.१२६.१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।अत्र राक्षसराजो ऽयमाजगाम विभीषणः ।। ६.१२६.१८ ।।१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥६-१२६-१६॥
Vālmīki 6.126.17
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥६-१२६-१७॥
Vālmīki 6.126.18
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ ॥६-१२६-१८॥
Vālmīki 6.126.19
एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥६-१२६-१९॥
Vālmīki 6.126.20
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥६-१२६-२०॥
Vālmīki 6.126.21
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥६-१२६-२१॥
Vālmīki 6.126.22
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ॥६-१२६-२२॥
Vālmīki 6.126.23
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥६-१२६-२३॥
Vālmīki 6.126.24
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥६-१२६-२४॥
Vālmīki 6.126.25
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥६-१२६-२५॥
Vālmīki 6.126.26
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ॥६-१२६-२६॥
Vālmīki 6.126.27
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।। ॥६-१२६-२७॥
Vālmīki 6.126.28
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥६-१२६-२८॥
Vālmīki 6.126.29
प्रवेशं चापि रामस्य पौरजानपदैः सह ।विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥६-१२६-२९॥
Vālmīki 6.126.30
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ॥६-१२६-३०॥
Vālmīki 6.126.31
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥६-१२६-३१॥
Vālmīki 6.126.32
दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः ।ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥६-१२६-३२॥
Vālmīki 6.126.33
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।समयश्च कृतः सीते वधार्थं वालिनो मया ॥६-१२६-३३॥
Vālmīki 6.126.34
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।त्वया विहीनो यत्राहं विललाप सुदुःखितः ।अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥६-१२६-३४॥
Vālmīki 6.126.35
अत्र योजनबाहुश्च कबन्धो निहतो मया ।। ६.१२६.३७ ।।विहीनो यत्राहं विललाप सुदुःखितः ।दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥६-१२६-३५॥
Vālmīki 6.126.36
खरश्च निहतो यत्र दूषणश्च निपातितः ।त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।एतत्तदाश्रमपदमस्माकं वरवर्णिनि ॥६-१२६-३६॥
Vālmīki 6.126.37
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥६-१२६-३७॥
Vālmīki 6.126.38
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥६-१२६-३८॥
Vālmīki 6.126.39
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥६-१२६-३९॥
Vālmīki 6.126.40
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥६-१२६-४०॥
Vālmīki 6.126.41
अस्मिन् देशे महाकायो विराधो निहतो मया ॥६-१२६-४१॥
Vālmīki 6.126.42
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः ।अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥६-१२६-४२॥
Vālmīki 6.126.43
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।यत्र मां केकयीपुत्रः प्रसादयितुमागतः ॥६-१२६-४३॥
Vālmīki 6.126.44
एषा सा यमुना दूराद्दृश्यते चित्रकानना ॥६-१२६-४४॥
Vālmīki 6.126.45
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥६-१२६-४५॥
Vālmīki 6.126.46
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ॥६-१२६-४६॥
Vālmīki 6.126.47
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ॥६-१२६-४७॥
Vālmīki 6.126.48
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।नानातरुशताकीर्णा सम्प्रपुष्पितकानना ॥६-१२६-४८॥
Vālmīki 6.126.49
एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् ।अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥६-१२६-४९॥
Vālmīki 6.126.50
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥६-१२६-५०॥
Vālmīki 6.126.51
ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् ।पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् ॥६-१२६-५१॥
Vālmīki 6.126.52
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।। ॥६-१२६-५२॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷