🪷 युद्धकाण्ड · Sarga 127
Yuddha-Kāṇḍa · The Book of War · Sarga 127 · 23 ślokas
🪷 Devanāgarī Ślokas
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥६-१२७-१॥
सो ऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ॥६-१२७-२॥
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥६-१२७-३॥
पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥६-१२७-४॥
त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ॥६-१२७-५॥
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ॥६-१२७-६॥
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥६-१२७-७॥
साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥६-१२७-८॥
सर्वं च सुखदुःखं ते विदितं मम राघव ॥६-१२७-९॥
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥६-१२७-१०॥
रावणेन हृता भार्या बभूवेयमनिन्दिता ।मारीचदर्शनं चैव सीतोन्मथनमेव च ॥६-१२७-११॥
कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥६-१२७-१२॥
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥६-१२७-१३॥
यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥६-१२७-१४॥
यथा विनिहतः सङ्ख्ये रावणो देवकम्टकः ।समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥६-१२७-१५॥
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ॥६-१२७-१६॥
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।बाढमित्येव संहृष्टो धीमान् वरमयाचत ।अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ॥६-१२७-१७॥
फलान्यमृतकल्पानि बहूनि विविधानि च ।भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥६-१२७-१८॥
तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ।अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ॥६-१२७-१९॥
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ।शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ॥६-१२७-२०॥
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ॥६-१२७-२१॥
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव ।कामादुपाश्नन्ति सहस्रशस्ते मुदा ऽन्विताः स्वर्गजितो यथैव ॥६-१२७-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ।। १२७ ।। ॥६-१२७-२३॥
Navigation
- ← Previous: Yuddha-Kāṇḍa Sarga 126
- Next: Yuddha-Kāṇḍa Sarga 128 →
- Yuddha-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷