🪷 युद्धकाण्ड · Sarga 128

Yuddha-Kāṇḍa · The Book of War · Sarga 128 · 46 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 6.128.1
अयोध्यां तु समालोक्य चिन्तयामास राघवः ।चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥६-१२८-१॥
Vālmīki 6.128.2
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥६-१२८-२॥
Vālmīki 6.128.3
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ।निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥६-१२८-३॥
Vālmīki 6.128.4
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥६-१२८-४॥
Vālmīki 6.128.5
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥६-१२८-५॥
Vālmīki 6.128.6
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥६-१२८-६॥
Vālmīki 6.128.7
हरणं चापि वैदेह्या रावणेन बलीयसा ॥६-१२८-७॥
Vālmīki 6.128.8
सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥६-१२८-८॥
Vālmīki 6.128.9
लङ्घयित्वा महातोयमापगापतिमव्ययम् ।उपयानं समुद्रस्य सागरस्य च दर्शनम् ॥६-१२८-९॥
Vālmīki 6.128.10
यथा च कारितः सेतू रावणश्च यथा हतः ।वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥६-१२८-१०॥
Vālmīki 6.128.11
महादेवप्रसादाच्च पित्रा मम समागमम् ।उपयातं च मां सौम्य भरतस्य निवेदय ॥६-१२८-११॥
Vālmīki 6.128.12
सह राक्षसराजेन हरीणां प्रवरेण च ॥६-१२८-१२॥
Vālmīki 6.128.13
एतच्छुत्वा यमाकारं भजते भरतस्तदा ।स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ॥६-१२८-१३॥
Vālmīki 6.128.14
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥६-१२८-१४॥
Vālmīki 6.128.15
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥६-१२८-१५॥
Vālmīki 6.128.16
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ।पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥६-१२८-१६॥
Vālmīki 6.128.17
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् ।प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ॥६-१२८-१७॥
Vālmīki 6.128.18
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥६-१२८-१८॥
Vālmīki 6.128.19
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ॥६-१२८-१९॥
Vālmīki 6.128.20
अथोत्पपात वेगेन हनुमान् मारुतात्मजः ।गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥६-१२८-२०॥
Vālmīki 6.128.21
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥६-१२८-२१॥
Vālmīki 6.128.22
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।। ६.१२८.२२ ।।ुनयोर्मध्यं सन्निपातमतीत्य च ।सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ॥६-१२८-२२॥
Vālmīki 6.128.23
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥६-१२८-२३॥
Vālmīki 6.128.24
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ।उत्पपात महावेगो वेगवानविचारयन् ॥६-१२८-२४॥
Vālmīki 6.128.25
सो ऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ।गोमतीं तां च सो ऽपश्यद्भीमं सालवनं तथा ।प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि ॥६-१२८-२५॥
Vālmīki 6.128.26
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ॥६-१२८-२६॥
Vālmīki 6.128.27
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥६-१२८-२७॥
Vālmīki 6.128.28
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥६-१२८-२८॥
Vālmīki 6.128.29
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥६-१२८-२९॥
Vālmīki 6.128.30
समुन्नतजटाभारं वल्कलाजिनवाससम् ।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥६-१२८-३०॥
Vālmīki 6.128.31
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥६-१२८-३१॥
Vālmīki 6.128.32
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥६-१२८-३२॥
Vālmīki 6.128.33
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥६-१२८-३३॥
Vālmīki 6.128.34
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः ॥६-१२८-३४॥
Vālmīki 6.128.35
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥६-१२८-३५॥
Vālmīki 6.128.36
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥६-१२८-३६॥
Vālmīki 6.128.37
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥६-१२८-३७॥
Vālmīki 6.128.38
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।सीता समग्रा रामेण महेन्द्रेण यथा शची ॥६-१२८-३८॥
Vālmīki 6.128.39
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥६-१२८-३९॥
Vālmīki 6.128.40
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥६-१२८-४०॥
Vālmīki 6.128.41
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः ॥६-१२८-४१॥
Vālmīki 6.128.42
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥६-१२८-४२॥
Vālmīki 6.128.43
गवां शतसहस्रं च ग्रामाणां च शतं परम् ।सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥६-१२८-४३॥
Vālmīki 6.128.44
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥६-१२८-४४॥
Vālmīki 6.128.45
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ।प्रहर्षितो रामदिदृक्षया ऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ॥६-१२८-४५॥
Vālmīki 6.128.46
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ।। १२८ ।। ॥६-१२८-४६॥

Navigation

Continue with Yuddha-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷