🪷 उत्तरकाण्ड · Sarga 1

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 1 · 43 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.1.1
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥७-१-१॥
Vālmīki 7.1.2
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥७-१-२॥
Vālmīki 7.1.3
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥७-१-३॥
Vālmīki 7.1.4
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥७-१-४॥
Vālmīki 7.1.5
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः ।जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ॥७-१-५॥
Vālmīki 7.1.6
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥७-१-६॥
Vālmīki 7.1.7
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥७-१-७॥
Vālmīki 7.1.8
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥७-१-८॥
Vālmīki 7.1.9
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।समीपं राघवस्याशु प्रविवेश महात्मनः ॥७-१-९॥
Vālmīki 7.1.10
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥७-१-१०॥
Vālmīki 7.1.11
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥७-१-११॥
Vālmīki 7.1.12
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥७-१-१२॥
Vālmīki 7.1.13
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥७-१-१३॥
Vālmīki 7.1.14
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह ।तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥७-१-१४॥
Vālmīki 7.1.15
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥७-१-१५॥
Vālmīki 7.1.16
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ॥७-१-१६॥
Vālmīki 7.1.17
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥७-१-१७॥
Vālmīki 7.1.18
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥७-१-१८॥
Vālmīki 7.1.19
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥७-१-१९॥
Vālmīki 7.1.20
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥७-१-२०॥
Vālmīki 7.1.21
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप ।दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥७-१-२१॥
Vālmīki 7.1.22
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥७-१-२२॥
Vālmīki 7.1.23
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥७-१-२३॥
Vālmīki 7.1.24
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥७-१-२४॥
Vālmīki 7.1.25
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥७-१-२५॥
Vālmīki 7.1.26
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥७-१-२६॥
Vālmīki 7.1.27
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ॥७-१-२७॥
Vālmīki 7.1.28
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥७-१-२८॥
Vālmīki 7.1.29
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥७-१-२९॥
Vālmīki 7.1.30
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ॥७-१-३०॥
Vālmīki 7.1.31
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥७-१-३१॥
Vālmīki 7.1.32
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥७-१-३२॥
Vālmīki 7.1.33
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥ ॥७-१-३३॥
Vālmīki 7.1.34
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥७-१-३४॥
Vālmīki 7.1.35
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥७-१-३५॥
Vālmīki 7.1.36
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥७-१-३६॥
Vālmīki 7.1.37
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥ ॥७-१-३७॥
Vālmīki 7.1.38
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥७-१-३८॥
Vālmīki 7.1.39
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥७-१-३९॥
Vālmīki 7.1.40
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ॥७-१-४०॥
Vālmīki 7.1.41
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥७-१-४१॥
Vālmīki 7.1.42
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः ।कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥७-१-४२॥
Vālmīki 7.1.43
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥७-१-४३॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷