🪷 उत्तरकाण्ड · Sarga 2
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 2 · 34 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ॥
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। ७.२.१४ ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ॥
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ॥
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ॥
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ॥
तस्मात्स विश्रवा नाम भविष्यति न संशयः ।एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ॥
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।।
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 1
- Next: Uttara-Kāṇḍa Sarga 3 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷