🪷 उत्तरकाण्ड · Sarga 3

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 3 · 36 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.3.1
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ॥
Vālmīki 7.3.2
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ॥
Vālmīki 7.3.3
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ॥
Vālmīki 7.3.4
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ॥
Vālmīki 7.3.5
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ॥
Vālmīki 7.3.6
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ॥
Vālmīki 7.3.7
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ॥
Vālmīki 7.3.8
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ॥
Vālmīki 7.3.9
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ॥
Vālmīki 7.3.10
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ॥
Vālmīki 7.3.11
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ॥
Vālmīki 7.3.12
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ॥
Vālmīki 7.3.13
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ॥
Vālmīki 7.3.14
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ॥
Vālmīki 7.3.15
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ॥
Vālmīki 7.3.16
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ॥
Vālmīki 7.3.17
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। ७.३.१७ ॥
Vālmīki 7.3.18
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ॥
Vālmīki 7.3.19
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ॥
Vālmīki 7.3.20
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ॥
Vālmīki 7.3.21
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। ७.३.२१ ॥
Vālmīki 7.3.22
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ॥
Vālmīki 7.3.23
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ॥
Vālmīki 7.3.24
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। ७.३.२४ ॥
Vālmīki 7.3.25
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। ७.३.२५ ॥
Vālmīki 7.3.26
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। ७.३.२६ ॥
Vālmīki 7.3.27
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। ७.३.२७ ॥
Vālmīki 7.3.28
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। ७.३.२८ ॥
Vālmīki 7.3.29
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.२९ ॥
Vālmīki 7.3.30
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.३० ॥
Vālmīki 7.3.31
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.३१ ॥
Vālmīki 7.3.32
निवासयामास तदा लङ्कां पर्वतमूर्धनि ।नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.३२ ॥
Vālmīki 7.3.33
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। ७.३.३३ ॥
Vālmīki 7.3.34
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.३४ ॥
Vālmīki 7.3.35
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.३५ ॥
Vālmīki 7.3.36
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.३६ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷