🪷 उत्तरकाण्ड · Sarga 4

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 4 · 32 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.4.1
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥७-४-१॥
Vālmīki 7.4.2
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ॥७-४-२॥
Vālmīki 7.4.3
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥७-४-३॥
Vālmīki 7.4.4
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥७-४-४॥
Vālmīki 7.4.5
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥७-४-५॥
Vālmīki 7.4.6
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥७-४-६॥
Vālmīki 7.4.7
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥७-४-७॥
Vālmīki 7.4.8
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥७-४-८॥
Vālmīki 7.4.9
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥७-४-९॥
Vālmīki 7.4.10
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥७-४-१०॥
Vālmīki 7.4.11
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥७-४-११॥
Vālmīki 7.4.12
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥७-४-१२॥
Vālmīki 7.4.13
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥७-४-१३॥
Vālmīki 7.4.14
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥७-४-१४॥
Vālmīki 7.4.15
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥७-४-१५॥
Vālmīki 7.4.16
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।उदावहदमेयात्मा स्वयमेव महामतिः ॥७-४-१६॥
Vālmīki 7.4.17
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥७-४-१७॥
Vālmīki 7.4.18
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥७-४-१८॥
Vālmīki 7.4.19
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥७-४-१९॥
Vālmīki 7.4.20
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥७-४-२०॥
Vālmīki 7.4.21
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥७-४-२१॥
Vālmīki 7.4.22
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।रमते स्म तया सार्धं पौलोम्या मघवानिव ॥७-४-२२॥
Vālmīki 7.4.23
केनचित्त्वथ कालेन राम सालकटङ्कटा ।विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥७-४-२३॥
Vālmīki 7.4.24
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥७-४-२४॥
Vālmīki 7.4.25
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥७-४-२५॥
Vālmīki 7.4.26
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥७-४-२६॥
Vālmīki 7.4.27
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥७-४-२७॥
Vālmīki 7.4.28
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥७-४-२८॥
Vālmīki 7.4.29
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ॥७-४-२९॥
Vālmīki 7.4.30
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥७-४-३०॥
Vālmīki 7.4.31
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥७-४-३१॥
Vālmīki 7.4.32
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥७-४-३२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷