🪷 उत्तरकाण्ड · Sarga 5
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 5 · 47 ślokas
🪷 Devanāgarī Ślokas
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥७-५-१॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥७-५-२॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥७-५-३॥
स तया सह संयुक्तो रराज रजनीचरः ।अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥७-५-४॥
देववत्यां सुकेशस्तु जनयामास राघव ॥७-५-५॥
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥७-५-६॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥७-५-७॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥७-५-८॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥७-५-९॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥७-५-१०॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥७-५-११॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ॥७-५-१२॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥७-५-१३॥
तपसाराधितो देव यदि नो दिशसे वरम् ।अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥७-५-१४॥
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥७-५-१५॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥७-५-१६॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥७-५-१७॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥७-५-१८॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥७-५-१९॥
ओजस्तेजोबलवतां महतामात्मतेजसा ।गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥७-५-२०॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते ।हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥७-५-२१॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।निवासं कथयामास शक्रस्येवामरावतीम् ॥७-५-२२॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥७-५-२३॥
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे ।शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥७-५-२४॥
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥७-५-२५॥
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥७-५-२६॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥७-५-२७॥
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥७-५-२८॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥७-५-२९॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥७-५-३०॥
एतस्मिन्नेव काले तु यथाकामं च राघव ।नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥७-५-३१॥
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥७-५-३२॥
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥७-५-३३॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।कुतदारास्तु ते राम सुकेशतनयास्तदा ॥७-५-३४॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥७-५-३५॥
स तस्यां जनयामास यदपत्यं निबोध तत् ।वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥७-५-३६॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥७-५-३७॥
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना ।नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ॥७-५-३८॥
सुमाली जनयामास यदपत्यं निशाचरः ।केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥७-५-३९॥
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः ।धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥७-५-४०॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥ ॥७-५-४१॥
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥७-५-४२॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥७-५-४३॥
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥७-५-४४॥
अनिलश्चानलश्चैव हरः सम्पातिरेव च ।एते विभीषणामात्या मालेयास्तु निशाचरः ॥७-५-४५॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥७-५-४६॥
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥७-५-४७॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 4
- Next: Uttara-Kāṇḍa Sarga 6 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷