🪷 उत्तरकाण्ड · Sarga 6
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 6 · 71 ślokas
🪷 Devanāgarī Ślokas
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥७-६-१॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥७-६-२॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥७-६-३॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥७-६-४॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥७-६-५॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ॥७-६-६॥
इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।तन्नो देव भयार्तानामभयं दातुमर्हसि ॥७-६-७॥
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ७.६.८ ।।धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥७-६-८॥
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥७-६-९॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥७-६-१०॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥७-६-११॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥७-६-१२॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥७-६-१३॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥७-६-१४॥
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥७-६-१५॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ॥७-६-१६॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥७-६-१७॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ॥७-६-१८॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥७-६-१९॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥७-६-२०॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥७-६-२१॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥७-६-२२॥
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥७-६-२३॥
सुकेशतनया देव वरदानबलोद्धताः ।बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥७-६-२४॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥७-६-२५॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥७-६-२६॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥७-६-२७॥
अवध्या मम ते देवाः सुकेशतनया रणे ।मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥७-६-२८॥
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥७-६-२९॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥७-६-३०॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥७-६-३१॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ॥७-६-३२॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥७-६-३३॥
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः ।यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥७-६-३४॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ॥७-६-३५॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥७-६-३६॥
नारायणेन निहताः शतशो ऽथ सहस्रशः ।एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥७-६-३७॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥७-६-३८॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥७-६-३९॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥७-६-४०॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥७-६-४१॥
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥७-६-४२॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥७-६-४३॥
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥ ॥७-६-४४॥
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥७-६-४५॥
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः ।युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥७-६-४६॥
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥७-६-४७॥
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥७-६-४८॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥७-६-४९॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥७-६-५०॥
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ॥७-६-५१॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥७-६-५२॥
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥७-६-५३॥
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥७-६-५४॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥७-६-५५॥
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥७-६-५६॥
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥ ॥७-६-५७॥
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥७-६-५८॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥७-६-५९॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥७-६-६०॥
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥७-६-६१॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥७-६-६२॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥७-६-६३॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥७-६-६४॥
आबध्य शरसम्पूर्णे इषुधी विमले तदा ।श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥ ॥७-६-६५॥
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥७-६-६६॥
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥७-६-६७॥
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥७-६-६८॥
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥७-६-६९॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥७-६-७०॥
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥७-६-७१॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 5
- Next: Uttara-Kāṇḍa Sarga 7 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷