🪷 उत्तरकाण्ड · Sarga 7
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 7 · 55 ślokas
🪷 Devanāgarī Ślokas
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥७-७-१॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥७-७-२॥
शलभा इव केदारं मशका इव पर्वतम् ।यथामृतघटं दंशा मकरा इव चार्णवम् ॥७-७-३॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥७-७-४॥
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥७-७-५॥
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥७-७-६॥
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ॥७-७-७॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ॥७-७-८॥
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥७-७-९॥
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥७-७-१०॥
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।मृगराज इवारण्ये समदानिव कुञ्जरान् ॥७-७-११॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥७-७-१२॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥७-७-१३॥
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥७-७-१४॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥७-७-१५॥
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥७-७-१६॥
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥७-७-१७॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥७-७-१८॥
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥७-७-१९॥
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥७-७-२०॥
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ॥७-७-२१॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥७-७-२२॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।वारिजं पूरयामास तोयदं सुरराडिव ॥७-७-२३॥
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥७-७-२४॥
प्रभग्ने राक्षसबले नारायणशराहते ।सुमाली शरवर्षेण निववार रणे हरिम् ॥७-७-२५॥
स तु तं छादयामास नीहार इव भास्करम् ।राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥७-७-२६॥
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥७-७-२७॥
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥७-७-२८॥
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥७-७-२९॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥७-७-३०॥
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥७-७-३१॥
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥७-७-३२॥
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥७-७-३३॥
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥७-७-३४॥
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥७-७-३५॥
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥७-७-३६॥
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥७-७-३७॥
गदया गरुडेशानमीशानमिव चान्तकः ।ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ॥७-७-३८॥
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥७-७-३९॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥७-७-४०॥
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥७-७-४१॥
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥७-७-४२॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥७-७-४३॥
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥७-७-४४॥
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥७-७-४५॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥७-७-४६॥
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥७-७-४७॥
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥७-७-४८॥
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥७-७-४९॥
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ॥७-७-५०॥
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥७-७-५१॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥७-७-५२॥
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥७-७-५३॥
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥७-७-५४॥
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥७-७-५५॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 6
- Next: Uttara-Kāṇḍa Sarga 8 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷